________________
२८६
श्रीअजितप्रभुचरितम् सर्गः-३
तेषां दत्त्वा गणमपि, भूयः स्वामी श्रितासनः । उचितां प्रददौ शिक्षामाद्याऽपूरि च पौरुषी ॥६७८॥ तदाऽऽढेकमितैः शालितन्दुलैर्भृशमुज्ज्वलैः । कारितः सगरक्षोणीभोत्क्षिप्तो वरैर्नरैः ॥६७९॥ विशालस्थालगो नाकिन्यस्तसद्गन्धबन्धुरः । नारीभिर्मङ्गलान्युच्चैर्गायन्तीभिः समन्वितः ॥६८०॥ दुन्दुभिध्वानसम्पूर्ण[दिङ्मुखो नागरैर्वृतः । पूर्वद्वारेण समवसरणं प्राविशद्वलिः ॥६८१॥ विशेषकम् ॥ दत्तप्रदक्षिणं भर्तुः, पुरस्तं खेऽक्षिपन्नराः । तस्य भूमीमनाप्तस्याऽगृह्णन्नड़ दिवौकसः ॥६८२॥ भूगतस्याऽग्रहीदड़, सगरश्चक्रवर्त्यथ । तच्छेषं तीर्थशेषावदगृह्णनपरे जनाः ॥६८३।। बलेस्तस्य प्रभावेण, पुराणा व्याधयोऽखिलाः । शाम्यन्ति यावत् षण्मासान्, प्रादुःषन्ति नवा न च ॥६८४॥ अथ प्रभुरुदग्द्वारा, निर्गत्य स्वर्गिभिर्वृतः । द्वितीयवप्रगे देवच्छन्दे विश्राममासदत् ॥६८५।। सिंहासनेऽथ सगरेणोपनीते स्थितोऽकरोत् । सिंहसेनो गणधरो, देशनां नाशयन्नघम् ॥६८६।। सङ्ख्यातीतान् भवानन्यदपि पृष्टं वदन्नसौ । छद्मस्थ इति नाऽज्ञायि, विना केवलिनं जनैः ॥६८७|| १. चतुःप्रस्थमितैः ।