SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ गणभृतां स्थापना २८५ श्रीनाभेयजिनाधीशतीर्थाश्रितव्रता अपि । पुनः श्रीअजिताधीशाद् व्रतानि प्रतिपेदिरे ॥६६८॥ अथाऽजितप्रभुः स्वीयरूपलक्ष्म्या सुरानपि । न्यक्कुर्वतां महीपालसचिवाद्यङ्गजन्मनाम् ॥६६९।। तेजसा जितभानूनां, नवयौवनशालिनाम् । उपात्तगणभृन्नाम्नां, सुकृतश्रीकुलौकसाम् ॥६७०॥ सिंहसेनप्रभृतीनां, क्षपितप्राज्यकर्मणाम् । सङ्ख्यया पञ्चनवतेस्तदा त्वात्तव्रतश्रियाम् ॥६७१।। भगवंस्तत्त्वं ब्रूहीति, वदतां विनयोज्ज्वलम् । उत्पाद-विगम-ध्रौव्यलक्षणां त्रिपदी जगौ ॥६७२।। चतुभिः कलापकम् ।। निःशेषश्रुतबीजं तामनुसृत्य सुमेधसः । ते तदा द्वादशाङ्गानि, रचयाञ्चक्रिरे क्षणात् ॥६७३।। तेभ्योऽनुयोग-गणयोगानुज्ञां दित्सतः प्रभोः । पुरस्तस्थौ दिव्यचूर्णस्थालपाणिः पुरन्दरः ॥६७४।। अथोत्थाय प्रभुः सूत्रेणाऽर्थेनैत[द्]द्वयेन च । द्रव्यैर्गुणैः पर्ययैश्च, नयैश्च भवतामिदम् ॥६७५॥ अनुज्ञातं तीर्थमिति, निगदन् गणधारिणा[म्] । तेषां शिरस्सु चिक्षेप, दिव्यचूर्णचयं स्वयम् ॥६७६।। युग्मम् ॥ तदा दुन्दुभिनिर्घोषे, प्रसर्पति ससम्मदाः । नरा नार्यः सुराः सुर्यस्तेषु वासान्निचिक्षिपुः ॥६७७॥
SR No.022706
Book TitleAjitrabhu Charitram
Original Sutra AuthorN/A
AuthorDevanandsuri, Vinaypurnashreeji
PublisherOmkarsuri Gyanmandir
Publication Year2017
Total Pages502
LanguageHindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy