SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ २८४ श्रीअजितप्रभुचरितम् सर्गः ३ , स तु धर्मो द्विधा ज्ञेयः सर्वदेशविरामतः । अल्पेन भूयसा चानेहसा दुःखविमोक्षकृत् ॥६५८॥ तत्राद्यधर्मसम्पन्नः सर्वसङ्गोज्झितो यतिः । दान्तपञ्चेन्द्रियो रुद्धकषायः सत्तपः परः ॥६५९॥ परीषहगणं तीव्रं, सहमानः शुभाशयः । निर्ममः स्वशरीरेऽपि, प्रपन्नश्चतुरो यमान् ॥६६०॥ जरा-मृत्यु-वियोगादिन्यक्षदुःखोज्झितं पदम् । अष्टत्र्यैकभवैः प्राप्नोत्युपास्तेस्तारतम्यतः ||६६१ || त्रिभिर्विशेषकम् ॥ यस्तु नो सर्वविरतिं, स्वीकर्तुं क्षमतेऽङ्गभृत् । पारमीप्सुर्भवाम्भोधेः, स देशविरतिं श्रयेत् ॥६६२॥ तत्र सम्यक्त्वमूलानि, व्रतानि द्वादशाऽऽदरात् । स्थूलहिंसाविरत्यादिन्याश्रयेत् सुसमाहितः ||६६३|| पूजास्तीर्थेशचैत्यैषु, विविधा निजशक्तितः । तन्वन् प्रभावनोद्युक्तः, सिध्यत्यष्टभवान्तरे ' ॥ ६६४ ॥ युग्मम् || इत्थं ज[ग] दुरोः पीत्वा, देशनाममृतोपमाम् । विदलन्मोहगरला, नरा नार्यश्च सत्वरम् ||६६५।। सर्वतो भेजिरे केचिद्विरतिं देशतोऽपरे । परे सम्यक्त्वमुररीचक्रुर्निर्मलमानसाः ||६६६॥ युग्मम् ॥ पिता सगरभूजानेः, सुमित्रोऽपि तदा मुदा । पुरा भावयतिः स्वामिपार्श्वे दीक्षामुपाददे ||६६७॥
SR No.022706
Book TitleAjitrabhu Charitram
Original Sutra AuthorN/A
AuthorDevanandsuri, Vinaypurnashreeji
PublisherOmkarsuri Gyanmandir
Publication Year2017
Total Pages502
LanguageHindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy