SearchBrowseAboutContactDonate
Page Preview
Page 312
Loading...
Download File
Download File
Page Text
________________ जिनदेशनायाम् अङ्गारकारकदृष्टान्तः काननाभ्यन्तरानीतस्फारदारुसमुच्चयः । तत: स [क]र्तुमङ्गारान् प्रावर्तिष्ट प्रयत्नतः ॥ ६४८॥ मध्याह्लार्ककरोदग्रवह्नितापसमुत्था । पीपासया पीडितोऽसौ, दृतेः सर्वमधाज्जलम् ॥६४९॥ सुष्वाप क्वाप्यसौ बाढं, बाध्यमान उदन्यया । स्वप्ने सद्मगतश्चाऽपान्निप - नन्दादिगा अपः ॥ ६५०|| तैर्जलैरविलीनायां, तृष्णायां वज्रवह्निवत् । अधासीदन्धु-कासारादीनां पाथांस्यसौ क्षणात् ॥ ६५१॥ तैरपि क्षामतां नाऽगात्तस्य तर्षः प्रकर्षवान् । ततोऽम्बुधि-धुनीनीरमगलद् गलितावधि ॥ ६५२॥ तथाप्यसावनुच्छिन्नपिपासः पयसे मरुम् । गत्वा कूपेऽक्षिपद्रज्जुयन्त्रितं कुशपूलकम् ॥६५३॥ दूराम्भस्त्वेन कूपस्याऽन्तरे च प्रच्युताम्भसम् । तं समाकृष्य निश्चोत्य, बिन्दून् सोऽक्षिपदानने ॥६५४|| या तृष्णा तस्य पाथोधिपाथोभिरपि नाऽत्रुटत् । सा तुच्छैः किं तु पूलाम्भश्रुणा (पृष) तैरन्तमाप्नुयात् ? || ६५५ ॥ तद्वद्देवभवोद्भूतैरपि सौख्यैर्महाद्भुतैः । अतृप्तः किं कृशैर्भोगैरङ्गी तृप्यति मानुषैः ? ||६५६॥ २८३ भो भव्या ! दुःखसन्दोहप्रदां भोगस्पृहां हृदः । परित्यज्य महानन्दप्रदं धर्मं भजेत तत् ॥ ६५७|| १. तृषया ।
SR No.022706
Book TitleAjitrabhu Charitram
Original Sutra AuthorN/A
AuthorDevanandsuri, Vinaypurnashreeji
PublisherOmkarsuri Gyanmandir
Publication Year2017
Total Pages502
LanguageHindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy