________________
२८२
श्रीअजितप्रभुचरितम् सर्गः - ३
खचारिषु द्वादश च, निरये पञ्चविंशतिः । षड्विंशतिस्तु देवेषु नरेषु द्वादशैव च ॥ ६३८ ॥
कोट्येका सप्तनवतिर्लक्षाः सार्द्धा इदं जिनैः । सर्वाग्रे कुलकोटीनां सङ्ख्यानं समुदाहृतम् ॥६३९॥ इत्थं बहुविधा योनी:, कुलानि च शरीरभृत् । एकैकेऽनेकशोऽभ्राम्यत्, प्रत्येकं संसृताविह ॥ ६४०|| इत्थं भ्राम्यन् भवी कश्चित्, क्लृप्तदुष्कर्मसन्ततिः । सत्क्षेत्र-सत्कुला-ऽऽरोग्योपेतं नृजनुराप्नुयात् ॥ ६४१॥ प्राप्तेऽपि तत्र न भवेद् गुरुप्राप्तिर्भवेच्च चेत् । श्रुतिस्तथापि दुष्प्रापा, तरी: संसारवारिधेः ॥ ६४२॥ तस्यां सत्यामपि श्रद्धोल्लसेत् कस्यचिदेव हि । तत्प्राप्तावपि वीर्यं तु, दुर्लभं धर्मगोचरम् ||६४३| धर्मो हि सङ्गनिर्मुक्तैर्भोगतृष्णाविवर्जितैः । आराद्धुं शक्यते धीरैर्नेतरैः कातरैर्जनैः ||६४४ || तृष्णैव देहिनां धर्मविघ्नकृद्दुःखदायिनी । शत्रुरूपा न कुत्रापि, जन्मन्येषा व्यलीय ॥ ६४५।।
स्वर्गभोगैरपि चिरं भुक्तैरच्छेदि या न हि । छिद्यतेऽङ्गारकृद्वत् सा, मर्त्यभोगैः किमङ्गिनाम् ? ॥६४६||
तथाहि कश्चिदङ्गारकारकोऽम्बुदृतिं गृहात् । गृहीत्वाऽगान्निदाघे तु क्षीणवारिणि कानने ॥ ६४७॥