SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ २८१ जिनदेशनायां योनि-कुलवर्णनम् प्रायेणाऽन्यस्तु सर्वोऽपि, देही कर्मवशो भवे । भ्राम्यत्यविश्रमं नानायोनिषु च कुलेषु च ॥६२८॥ वर्ण-गन्ध-रस-स्पर्शः, समाना ये परस्परम् । उत्पत्तिस्थानभेदाः स्युः, सैका योनिविवक्ष्यते ॥६२९॥ भू-दका-ऽग्नि-समीरेषु, लक्षाः सप्त पृथक् पृथक् । दश प्रत्येकतरुषु, योनीनां समुदीरिताः ॥६३०॥ चतुर्दश पुनर्लक्षाः, साधारणवनस्पतौ । द्वे द्वे तु प्रत्येकं द्वि-त्रि-चतुरिन्द्रियदेहिषु ॥६३१॥ लक्षाश्चतस्रो निरये, चतस्रः सुरसद्मनि । स्युश्चतस्रश्च तिर्यक्षु, मनुष्येषु चतुर्दश ॥६३२॥ एवं चतुरशीतिः स्युर्योनिलक्षाणि संसृतौ । साम्प्रतं शृणुतैकाग्राः, कुलसङ्ख्यां मनीषिणः ! ॥६३३।। इहैकयोनितो जाता, अपि नानाकुला मताः । कृमि-वृश्चिक कीटाद्या, यद् दृष्टा एकगोमयात् ॥६३४।। लक्षाणि कुलकोटीनां, भवेयुादशाऽवनौ । जले सप्ताऽनले त्रीणि, सप्तैव च समीरणे ॥६३५॥ वनस्पतिषु चाष्टाविंशतिद्वयक्षेषु सप्त च । अष्टौ त्र्यक्षेषु नव च, चतुरक्षेषु देहिषु ॥६३६।। चतुष्पदेषु दश च, भुजगेषु नवैव तु । दशोरगेषु द्वादश, सा न्युदकचारिषु ॥६३७।।
SR No.022706
Book TitleAjitrabhu Charitram
Original Sutra AuthorN/A
AuthorDevanandsuri, Vinaypurnashreeji
PublisherOmkarsuri Gyanmandir
Publication Year2017
Total Pages502
LanguageHindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy