________________
२८०
श्रीअजितप्रभुचरितम् सर्गः-३ सदैवानन्दश्रीप्रकटनकलाकौशलवतीं, [द्विती] यस्तीर्थेशो निजचरणसेवां दिशतु मे ॥६१८॥ [शिखरिणीवृत्तम्] इति स्तुत्वा विरतयोः, सुरराट्-सार्वभौमयोः । भगवान् सर्वजन्तूनां, निनिमित्तैकबान्धवः ॥३१९॥ सर्वभाषापरिणतामायोजनविहारिणीम् ।। पञ्चत्रिंशद्गुणोदारां, सारां व्यतत भारतीम् ॥६२०॥ युग्मम् ॥ 'अहो ! अपारसंसारसागरोऽनन्तदुःखदः । त्यक्तुमेवोचितश्चञ्चच्चैतन्यानां महात्मनाम् ॥६२१॥ अनादौ हि भवेऽनादिजीवोऽनादिस्वकर्मतः । राशावव्यवहाराख्येऽवसत् कालमनन्तकम् ॥६२२॥
तद्यथा
लोके गोला असङ्ख्याता, गोलोऽसङ्ख्यनिगोदकः । एकैकस्मिन्निगोदे च, सन्त्यनन्ताः शरीरिणः ॥६२३॥ युगपद्विहिताऽऽहार-नीहारास्ते च जन्तवः । समानपानास्तिष्ठन्ति, बाढं दुःखभराकुलाः ॥६२४।। पुद्गलानां परावर्ताननन्तान् जन्मनाशभाक् । नयत्येवं निगोदेषु, जन्तुः सम्मर्दपीडितः ॥६२५।। अकामनिर्जरायोगात्, तत्र कर्माणि कानिचित् । तुच्छीकृत्य व्यवहारराशिमाप्नोति कृच्छ्रतः ॥६२६।। अत्यन्तस्थावरोऽप्यङ्गी, मरुदेवेव कश्चन । लघुकर्मा नृतां लब्ध्वा, भवे तत्रैव सिध्यति ॥६२७॥