________________
२७९
देवेन्द्रकृता श्रीअजितजिनस्तुतिः विनयावनमन्मौली, शक्र-चक्रधरौ ततः । प्रमोदनिचितावेवं, तुष्टुवाते जगत्प्रभुम् ॥६०९।। 'जयाऽप्रतिहतज्ञानविज्ञाताशेषविष्टप ! । जय जन्तुकृपारब्धदेशनोपक्रम ! प्रभो ! ॥६१०॥ सुदुर्वारमहामोहसानुमद्भिदुराय ते । जिनेश्वराय जगतीप्रवराय नमो नमः ॥६११॥ धन्यास्त एव सुग्राह्यनामधेयाश्च तेऽङ्गिनः । हसन्ति मानसे येषां, त्वत्पादा विश्ववन्दिताः ॥६१२।। रसनां स्तुमहे तां या, महेश ! त्वद्गुणस्तुतौ । व्यापृता क्षालयत्येव, सावद्यं वचनाजितम् ॥६१३॥ श्रवसी श्रेयसी देवदेव ! ते एव ये सदा । स्वं कृतार्थयतः स्वीयगोचरीकृत्य ते कथाम् ॥६१४॥ ते एव चक्षुषी श्लाघ्ये, पीत्वा रूपामृतं तव । याभ्यामप्रेक्ष्यप्रेक्षाऽहिविषावेगो निरस्यते ॥६१५।। स्तुवीमहे ललाटं तत्, पादपीठस्पृशा प्रभो ! । ध्रियते ननु येन त्वत्पादरेणोविशेषकः ॥६१६॥ येषां तव स्मृति-स्तोत्र-श्रुतीक्षणादिषु प्रभो ! । न व्यापृतिस्तकैः किं हृज्जिह्वा-श्रोत्रेक्षणान्तिकैः ॥६१७।। अरक्ष्णानां रक्ष्णे भवभयभृतामच्युतरुचिः, श्रियां सृष्ट्यै पद्मप्रभवमहिमांऽहस्ततिहरः ।
१. तिलकम् ।