SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ २७८ श्रीअजितप्रभुचरितम् सर्गः-३ अत्रान्तरे भृशोद्भूताऽद्भुता आरामपालकाः । अवर्द्धयन् प्रभोर्ज्ञानोत्पत्त्या सगरचक्रिणम् ॥५९९।। चक्रवर्ती स्फुरत्प्रीतिप्राग्भारः पारितोषिके । अर्द्धत्रयोदशाः स्वर्णकोटीस्तेभ्योऽदित द्रुतम् ॥६००॥ समुच्छ्रितध्वजां बद्धचारुवन्दनमालिकाम् । वादित्रनिनदपूर्णा, गीतव्याप्तगायनीम् ॥६०१।। कुङ्कुमाम्बुसमासिक्तां, मौक्तिकस्वस्तिकाङ्किताम् । पुरीं महमयीं स्वीयनरैर्भूपो व्यधापयत् ॥६०२॥ युग्मम् ॥ ततश्च कृतमङ्गल्यो, दिव्यनेपथ्यभासुरः । ऐरावतमिवोत्तुङ्गमारूढो गन्धवारणम् ॥६०३॥ वृतो मुकुटबद्धानां, सहस्रैर्वसुधाभुजाम् । सङ्कटीकृतभूपीठो, गजा-ऽश्व-रथ-पत्तिभिः ॥६०४।। आतोद्यनिःस्वनैर्बन्दितारवाग्भिश्च रोदसी । पूरयन् सगरः प्राप, सहस्राम्रवणान्तिकम् ॥६०५॥ विशेषकम् ॥ दृष्ट्वा समवसरणं, द्विरदस्कन्धतो जवात् । उत्तीर्य राजचिह्नानि, छत्रादीन्यमुचनृपः ॥६०६॥ सन् त्यक्तपादुकः पद्भ्यां, चरन्ननुगतो नृपैः । उदग्द्वारेण समवसरणं प्राविशत्ततः ॥६०७॥ प्रदक्षिणात्रयीं दत्त्वा, प्रभुं नत्वा च भक्तितः । सगरश्चक्रभृत्तस्थौ, पृष्ठतः त्रिदशेशितुः ॥६०८।।
SR No.022706
Book TitleAjitrabhu Charitram
Original Sutra AuthorN/A
AuthorDevanandsuri, Vinaypurnashreeji
PublisherOmkarsuri Gyanmandir
Publication Year2017
Total Pages502
LanguageHindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy