SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ २७७ समवसरणे द्वादशपर्षदां स्थानादिनिरूपणम्-२ साधवो न्यषदन्नग्निदिशि तेषां च पृष्ठतः । वैमानिक्यस्तस्थुरूर्वाः, साध्व्यस्तासां तु पृष्ठतः ॥५८९।। अपाग्द्वारा भवनेश-ज्योतिष्क व्यन्तरस्त्रियः । प्रविश्येशं प्रणम्योद्धर्वं, नैऋत्यां क्रमतः स्थिताः ॥५९०॥ प्रत्यग्द्वारा भवनेश-ज्योतिष्क व्यन्तरामराः । एत्य नत्वा जिनं वायुककुभि न्यषदन् क्रमात् ॥५९१॥ समागत्योत्तरद्वारा, विधिनाऽऽनम्य नायकम् । ऐशान्यां न्यषदन् कल्पाऽमर-मानव-तत्स्त्रियः ॥५९२॥ द्वितीयस्य तु वप्रस्य, मध्ये सिंह-गजादयः । तिर्यञ्चो जातिविद्वेषमपि मुक्त्वा मुदा स्थिताः ॥५९३।। तृतीयवप्रगर्भे तु, सम्मा [द]प्यबाधितैः । सुरासुरनरेशानां, वाहनैः समवस्थितम् ॥५९४॥ नाऽऽसीनियन्त्रणा तत्र, विकथाऽपि च नावृतत् । नाऽधान्मात्सर्यमन्योन्यं, साध्वसं च न कश्चन ॥५९५।। केचन त्रिदशास्तत्र, लास्यमुल्लासतो व्यधुः । केचिद्वादित्रनिर्घोषं, व्यतन्वन्नुरुभक्तयः ॥५९६॥ गायन्ति स्म गुणान् भर्तुः, केचिच्चन्द्रकरोज्ज्वलान् । केचित् क्ष्वेडामकुर्वंश्चाऽलिखन् केऽप्यष्टमङ्गलीम् ॥५९७।। द्वाराण्युभयतः केचिन्मङ्गल्यानमुचन् घटान् । रत्नपुष्प[फ]लवातं, ववृषुः केऽपि हर्षतः ॥५९८॥
SR No.022706
Book TitleAjitrabhu Charitram
Original Sutra AuthorN/A
AuthorDevanandsuri, Vinaypurnashreeji
PublisherOmkarsuri Gyanmandir
Publication Year2017
Total Pages502
LanguageHindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy