________________
श्रीअजितप्रभुचरितम् सर्गः १
-
गुरुं श्रीगौतमं वर्यममनन्तलब्धिशेवधिम् । प्रणौमि भावतः सर्वविघ्नव्यूहोपशान्तये ||७|| यस्याः स्मरणमात्रेण, शुद्धबुद्धिर्भवेद् ध्रुवम् । प्रणमामि जगद्वन्द्यां तां श्रुतदेवतां सदा ॥८॥ यस्य कृपां समासाद्य, जडोऽपि विबुधायते । तं गुरुं स्वात्मभावेन, प्रणमामि क्षणे क्षणे ||९|| अनादिकालतो जीवाः, पर्यटन्त्यत्र संसृतौ । दुःखशताकुलानां तु, तेषां कोऽपि न रक्षकः ॥ १०॥
अस्मिन्नसारसंसारे, शरण्यो धर्म एव हि । चिन्तामणिसदृक्षः सोऽर्हत्कथितश्चतुर्विधः || ११||
रागद्वेषविजेता च साम्यभावे सदा रतः । निर्गतसर्वदोषो यः सकलगुणधारकः ॥ १२॥
देशकालादिकं सर्वं, केवलालोकचक्षुषा । जानीते न तु रक्तः स्याद्, द्वेषव्याप्तोऽपि नो भवेत् ॥१३॥
संसेव्यमानपादाब्जः, सुरासुरनरेश्वरैः ।
सर्वज्ञो भगवान् धर्मस्योपदेशं ददाति सः || १४ || [ त्रिभिर्विशेषकम् ] ]
अर्हत्पादाम्बुजध्यानवर्जिता मोहतर्जिताः ।
अर्जितं कृच्छ्रतोऽप्याशु, नयन्ति नृभवं यथा ||१५||
जगन्नम्यं जगत्पूज्यं, जगत्स्तुत्यं जगत्प्रभुम् । अर्हन्तमप्रपन्नानां, कुतो भवति यः शमः ॥ १६ ॥
१. 'वृथा' इति सङ्गतमाभाति ।