SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ ॥ अर्हम् ॥ ॥ श्रीभीलडीयाजीपार्श्वनाथाय नमः ॥ ॥ श्रीभद्र-विलास-ॐकार-अरविन्द-यशोविजय-मुनिचन्द्रसूरिगुरुभ्यो नमः ॥ श्रीदेवानन्दसूरिरचितम् श्रीअजितप्रभुचरितम् प्रथमः सर्गः [शिवमार्गोपदेष्टारं, ज्ञातारं विश्ववस्तुनः । श्रीशत्रुञ्जयतीर्थेशमादिनाथं नमाम्यहम् ॥१॥ सर्वकर्मारयो येन, विजिता आत्मशक्तितः । अन्तर्वैरिजयार्थं तमजितं सततं श्रये ॥२॥ स्वमांसदानतः पारापतस्य रक्षको हि यः । स श्रीशान्तिजिनो भूयादमन्दानन्दहेतवे ॥३॥ सिद्धियोषातिसक्तेन, येन राजीमती मुदा । त्यक्ता सोऽरिष्टनेमिःग्, भूयाद् वोऽरिष्टनाशनः ॥४॥ अचिन्त्यमहिमाशाली, यः कल्पद्रुसमः कलौ । स श्रीपाॉ मनोऽभीष्टं, ददातु भविनां सदा ॥५॥ यदंहिस्पर्शहर्षेण, मन्ये मेरुः प्रनृत्तवान् । श्रीमान् स श्रीमहावीरः, श्रेयसेऽस्तु भवे भवे ॥६॥ १. इदं तु ध्येयम्- अस्य 'श्रीअजितप्रभुचरितस्य' एकोऽपि हस्तलिखित आदर्शः प्राप्तो नास्ति, केवलम् आगमप्रभाकरमुनिपुण्यविजयजीसज्जीकृतमुद्रणार्हप्रतिः (पु.प्रे. = पुण्यविजयप्रेसकोपि इति सङ्केतिता) प्राप्ता, अस्याः प्रथमं पत्रं न प्राप्यते, अतः १ तः १४ मिताः श्लोका अपि न लब्धाः, एते १-१४ श्लोका अस्माभी रचिता अत्र [ ] कोष्ठके प्रदर्शिताः संपा. ।
SR No.022706
Book TitleAjitrabhu Charitram
Original Sutra AuthorN/A
AuthorDevanandsuri, Vinaypurnashreeji
PublisherOmkarsuri Gyanmandir
Publication Year2017
Total Pages502
LanguageHindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy