SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ २७४ श्रीअजितप्रभुचरितम् सर्गः-३ पौषस्य शुक्लैकादश्यां, शशाङ्के रोहिणीगते । कृतषष्ठस्य नाथस्य, पूर्वाह्नेऽजनि केवलम् ॥५५९॥ तन्न कालत्रये लोकत्रयेऽप्यस्ति जगद्विभुः । सर्वज्ञः सर्वदर्शी यन्नाऽजानान्न निरैक्षत ॥५६०॥ प्रववुः सुखदा वाताः, प्रसन्नाः ककुभोऽभवन् । नारकाङ्गभृतोऽप्यन्वभूवन् सौख्यं तदा क्षणम् ॥५६१।। अथाऽऽसनेषु कम्प्रेषु, प्रयुक्तावधयोऽबुधन् । स्वामिनः केवलोत्पत्ति, सर्वेऽपि सुरनायकाः ॥५६२॥ उत्थायाऽऽसनतस्त्यक्त्वा, पादुके रत्ननिर्मिते । दत्त्वा पदानि सप्ताष्टानीशदिश्यनमन्नमी ॥५६३।। ततोऽलङ्कृतपीठाः स्वं, साक् सम्मील्य परिच्छदम् । महाऽजितनाथस्याऽभ्यर्णमीयुः समुत्सुकाः ॥५६४॥ अथो नाथस्य समवसरणार्थं मरुत्सुराः । आयोजनमहीमस्तकश्मलप्रकरां व्यधुः ॥५६५।। गन्धाम्बुवृष्ट्या स्तनितकुमाराः स्वात्मना समम् । तां भुवं शान्तरजसं, कुर्वन्ति स्म स्मिताननाः ॥५६६।। बबन्धुः स्वर्ण-माणिक्य-रत्नस्तां व्यन्तरामराः । जर्जानुदघ्नीं पुष्पवृष्टि, चक्रुस्तत्र ऋतुश्रियः ॥५६७॥ चत्वारस्तोरणास्तत्राऽभवन् व्यन्तरनिर्मिताः । चतुर्विधस्य धर्मस्य, प्रवेशद्वारसन्निभाः ॥५६८॥ १. जानुप्रमाणाम् । २. ऋत्वधिष्ठायिका देव्यः ।
SR No.022706
Book TitleAjitrabhu Charitram
Original Sutra AuthorN/A
AuthorDevanandsuri, Vinaypurnashreeji
PublisherOmkarsuri Gyanmandir
Publication Year2017
Total Pages502
LanguageHindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy