________________
श्रीअजितप्रभोः केवलज्ञानप्राप्तिः
२७३
कायोत्सर्गस्थितः स्तम्भभ्रान्त्या विपिनसैरिभैः । उद्धृष्टोऽपि स्कन्धकण्डूच्छित्त्यै नाऽकम्पत प्रभुः ॥५४९॥ अष्टमासिकपर्यन्तं, खड्गधारोपमं तपः । कर्मारातिविघाताय, विदधे भुवनेश्वरः ॥५५०॥ स्थाने स्थाने विभुर्भव्यैरनामि प्रत्यलाभि च । अस्तावि चानुजग्मे च, स्वीयजन्मफलार्थिभिः ॥५५१॥ आर्यदेशेषु विहरन्नेवं सत्त्ववतां वरः ।। छाद्मस्थ्ये द्वादशाब्दानि, जगन्नाथोऽत्यवाहयत् ॥५५२॥ विनीतामथ सम्प्राप्तः, सहस्त्रामवणे जिनः । सप्तच्छदतरोर्मूले, तस्थौ प्रतिमया स्थिरः ॥५५३।। अप्रमत्तगुणस्थानादपूर्वकरणं गतः । विश्वेशः स्थितिघातादीन्, पञ्चाऽपूर्वान् विनिर्ममे ॥५५४।। श्रौतादर्थाद् व्रजन् शब्दं, शब्दादर्थं व्रजस्तदा । नानात्वश्रुतवीचारं, शुक्लध्यानं प्रभुर्दधौ ॥५५५॥ अथो गुणस्थानमनिवृत्तिबादरनामकम् । ततः सूक्ष्मसंपरायं, क्षीणमोहं च भेजिवान् ॥५५६।। क्षीणमोहान्त्यसमये, शुक्लध्यानं द्वितीयकम् । एकत्वश्रुतमाप्याऽऽ]शु, [स] निर्वाणमनाः प्रभुः ॥५५७॥ अहन् ज्ञानावृती: पञ्च, चतस्रो दर्शनावृतीः । विघ्नान् पञ्च च सद्योऽपि, योद्धेवाऽरीन् सुदुर्द्धरान् ॥५५८॥ युग्मम् ॥