________________
२७२
श्रीअजितप्रभुचरितम् सर्गः-३ एवं प्रमोदमुखरैः, सुरैर्जल्पद्भिरम्बरे । जातः कोलाहलः कोऽपि, व्यानशे सकला दिशः ॥५३९॥ विशेषकम् ॥ महीयसोत्सवेनैवं, विभुर्विहितपारणः । विजहेऽन्यत्र निर्मातुं, निर्जरां क्रूरकर्मणाम् ॥५४०।। विश्वेशचरणन्यासपूता पारणमेदिनी । मोल्लध्यतां जनैरेवं, ध्यायन् विशदमानसः ॥५४१॥ रत्नैर्वरैर्ब्रह्मदत्तस्तत्र पीठं व्यधापयत् । अपूजयच्च श्रीखण्ड-पुष्पाद्यैरुपवैणवम् ॥५४२॥ युग्मम् ॥ स्वाम्यथो नगरा-ऽरण्य-नदी-पर्वतभूमिषु । विजहार गुणाधारः, सुरासुरनमस्कृतः ॥५४३॥ स्वर्णाद्रिरिव निष्कम्पः, शुद्धहृच्छारदाम्बुवत् । सर्वंसहः पृथिवीव, पञ्चानन इवाऽभयः ॥५४४॥ गुप्तेन्द्रियः कूर्म इव, दीप्ततेजा गभस्तिवत् । सौम्यलेश्यश्चन्द्र इव, तपसाऽग्निरिव ज्वलन् ॥५४५॥ वायुरिवाऽप्रतिबद्धो, निर्लेपः पद्मपत्रवत् । समुद्र इव गम्भीरः, शौण्डीरः सामयोनिवत् ॥५४६।। निरञ्जनः शङ्ख इव, खड्गिशृङ्गमिवैककः । तीर्थीचकार स्वपदन्यासैः स्वामी वसुन्धराम् ॥५४७॥ कलापकम् ॥ प्रभुर्हेमन्ततुहिनैर्दीष्मातपचयेन च । वर्षाजलभरेणाऽपि, दुर्मना न मनागभूत् ॥५४८॥