________________
ब्रह्मदत्तनृपगृहे प्रभोः पारणम्
२७१
तुभ्यं जितकषायाय, विषयाहिगरुन्मते । शमपीयूषकुण्डाय, देवदेव ! नमो नमः' ॥५२९॥ स्तुत्वेत्यजिततीर्थेशं, प्र[ण]म्य च पुरन्दराः । प्राग्वन्नन्दीश्वरे क्लृप्तोत्सवाः स्वं स्वं पदं ययुः ॥५३०॥ सगरोऽपि प्रभुं नत्वा, बाष्पक्लिन्नविलोचनः । स्खलद्गतिविवेशाऽथ, विनीतां सपरिच्छदः ॥५३१॥ नगर्यामथ तत्रैव, द्वितीयेऽह्नि समासदत् । पारणाय ब्रह्मदत्त भूपतेः सदनं प्रभुः ॥५३२॥ सोऽपि प्रभुं समायातं, वीक्ष्योद्यत्पुलकाङ्करः । अभ्युत्थाय मुदाऽनंसीच्चरणन्यस्तमस्तकः ॥५३३॥ हर्षाश्रुपूर्णनेत्रोऽसौ, जिनेशं पाणिभाजनम् । अचीकरत् कृतिप्रष्ठः, परमान्नेन पारणम् ॥५३४॥ तदा सद्यः सुराः सार्द्धस्वर्णद्वादशकोटिकाम् । वसुधारां तस्य गृहे, ववृषुविलसन्मुदः ॥५३५॥ पञ्चवर्णप्रसूनानां, वृष्टिं गन्धोदकस्य च । चेलोत्क्षेपं दुन्दुभेश्च, निर्घोषं ते वितेनिरे ॥५३६।। ब्रह्मदत्त ! जय जय, श्लाघ्योऽसि पुण्यवानसि । महादानमदास्त्वं यत्तीर्थेशाय महाशय ! ॥५३७॥ अस्य दानस्य दाता स्यात्तत्क्षणं विपुलद्धिकः । सिध्येच्च कश्चिदत्रैव, भवे कश्चित्तृतीयके ॥५३८।।