________________
२७०
श्रीअजितप्रभुचरितम् सर्गः-३
स्वोत्तरीयाञ्चलेनेन्द्रः, प्रेतीष्य चिकुरान् प्रभोः । नीत्वा क्षीरार्णवजले, क्षिप्त्वा चाशु समागमत् ॥५१९॥ शक्रेण प्रतिषिद्धेऽथ, परितस्तुमुले विभुः । कृत्वा सिद्धनमस्कारं, पापकारस्करानलम् ॥५२०॥ प्रत्याख्याम्यखिलं योगं, सावा जीवितावधि । इति प्रकटगीश्चारुचारित्रं प्रतिपन्नवान् ॥५२१॥ युग्मम् ।। तदैव कृतसङ्केतमिव ज्ञानं तुरीयकम् । नरक्षोणीसज्ञिमनोभासकं प्रभुमासदत् ॥५२२॥ तदा क्षणं सुखं प्रापुरपि नारकदेहिनः । उद्द्योतश्च झटित्येवाऽविरभूद् भुवनत्रये ॥५२३॥ अनुतीर्थपति क्षमापाः, सहस्रं भक्तिशालिनः । उद्भूताद्भुतसंवेगावेगाद्दीक्षां प्रपेदिरे ॥५२४।। देव-दानव-मानामीशा योजितपाणयः । अथाऽजितजिनाधीशं, नत्वाऽस्ताविषुरादृताः ।।५२५।। 'जय स्फुरच्चतुर्ज्ञान !, जय दोषाब्दमारुत ! । जय विश्वत्रयीनाथ !, जय चारित्रमन्दिर ! ॥५२६।। तीवेण ध्यानखड्गेन, दुर्मत्तं मोहवैरिणम् । विश्वसन्तापिनं हन्तुं, त्वमेव क्षमसेऽजितः ॥५२७।। रागादिवैरिभिः क्रूरैर्दुःखगर्ने प्रपातिनम् । इदं जगज्जगद्भर्तस्त्वयैव त्रास्यते ध्रुवम् ॥५२८।।
१. गृहीत्वा । २. दोषमेघसमीरण ! ।