________________
२६९
श्रीअजितप्रभोः संयमग्रहणम् प्रासाद-वृक्ष-प्राकार-कुट्टिमाग्राणि संश्रितैः । मुहुर्मुहुरसन्तृप्त्याऽनेकैलॊकैविलोकितः ॥५०९।। इन्द्राणां नाट्यगन्धर्वानीकनिर्मलभक्तितः । बहुधा नाटकैर्गीतैः, ससम्भ्रममुपासितः ॥५१०॥ उत्कैः परिवृतः पौरैः, पृष्ठतः पार्श्वतोऽग्रतः । चक्रिणाऽनुगतो हर्षशोकमूढेन साश्रुणा ॥५११॥ सारपूर्णानि वेश्मानि, त्यक्त्वा शून्यानि सत्वरम् । पौरीभिरेत्य यत्नेन, विश्वसारमितीक्षितः ॥५१२॥ प्रक्लृप्तानि प्रतिपदं, मङ्गलानि पुरीजनैः । प्रतीच्छन्निःस्पृहोऽप्युच्चस्तेषां तोषविवृद्धये ॥५१३॥ मध्याध्वना विनीताया, निर्गत्य गतमोहधीः । सहस्राम्रवणं नामोद्यानमीशः समासदत् ॥५१४।। षड्भिः कुलकम् ॥ तत्र प्रविश्य चोत्तीर्य, शिबिकाया जगद्विभुः । मुमोचाऽलङ्कृतिं सर्वां, क्लेशश्रेणिमिवाङ्गिनीम् ॥५१५।। सौधर्माधिपतिर्देवदूष्यं स्कन्धतटे विभोः । न्यवेशयन्महाभक्त्या, स्वीयचित्तमिवोज्ज्वलम् ॥५१६।। माघस्य शुक्लनवमीदिने ब्राह्मीगते विधौ । षष्ठेन तपसा सप्तच्छदनाम्नस्तरोस्तले ॥५१७।। सायाह्ने विषयद्रूणामङ्करानिव कुन्तलान् । पञ्चभिर्मुष्टिभिर्विश्वनायकः प्रोदमूलयत् ॥५१८॥ युग्मम् ॥
१. रोहिणीगते ।