SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ २६८ श्रीअजितप्रभुचरितम् सर्गः-३ अथोग्रादिकुलाश्चेलुभूपा हस्त्यादियानगाः । महर्द्धयस्ततो देवा, देव्योऽपि च विमानगाः ॥४९९।। भेरीः शङ्खान् कांस्यतालान्, मृदङ्गान् झल्लरीरपि । वादयामासुरामोदान्मानवास्त्रिदशा अपि ॥५००॥ जगुर्गोंरान् गुणान् केचिद्, गुणरत्नाम्बुधेः प्रभोः । हर्षमाणाः पुरः केचिन्ननृतुर्लोलपाणयः ॥५०१॥ पञ्चवर्णानि पुष्पाणि, गन्धाम्बु च पुरोऽध्वनि । ववृषुः केचन प्रोद्यद्भक्तयस्त्रिदशोत्तमाः ॥५०२॥ प्रभुनराणां नारीणामञ्जिलीन् प्राञ्जलात्मनाम् । प्रत्यैच्छद्दक्षिणेनोच्चैः, पाणिना भाववृद्धये ॥५०३।। रागद्वेषौ महामल्लावत्यन्तं दुर्जयौ जय । यशो लभस्व विश्वेशाऽनन्यलभ्यं महोज्ज्वलम् ॥५०४।। संसारिणामशेषाणां, दुःखसन्दोहदायकान् । कर्मशतान् विनिर्जित्य, जगत्तुष्टिकरो भव ॥५०५॥ अहानि पक्षान् मासांश्च, ऋतूनप्ययनानि च । संवत्सरान् बहूंश्चापि, धर्मो निर्विघ्नमस्तु ते ।।५०६।। सम्प्राप्य केवलोद्योतं, पापध्वान्तदिवाकर ! । लोकान् मोहमहानिद्रासुप्तान् जागरय प्रभो ! ॥५०७।। इत्याशीर्गर्भवचनैर्भूरिभक्तिसमन्विताः । शश्वत्तुष्टुविरे नाथं, मनुजाः ससुरासुराः ॥५०८॥ पञ्चभिः कुलकम् ॥
SR No.022706
Book TitleAjitrabhu Charitram
Original Sutra AuthorN/A
AuthorDevanandsuri, Vinaypurnashreeji
PublisherOmkarsuri Gyanmandir
Publication Year2017
Total Pages502
LanguageHindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy