SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ २६६ श्री अजितप्रभुचरितम् सर्गः - ३ समाहूताः प्रभोः कीर्त्या, दिगन्तेभ्योऽपि मार्गणाः । सम्प्राप्तार्था यथाकामं, प्रत्याववृतिरे मुदा ॥ ४७९ ॥ । सूर्योदयात् समारभ्य, प्रददौ भोजनावधि । प्रभुरेकां स्वर्णकोटीं, साष्टलक्षीं दिने दिने ॥ ४८०|| वर्षेण प्रददौ स्वामी, स्वर्णकोटिशतत्रयम् । अष्टाशीतिं तथा कोटीर्लक्षाशीतिसमन्विताः ॥४८१॥ अथ वार्षिकदानान्ते, पीठकम्पेन वासवाः । दीक्षाक्षणं विभोर्ज्ञात्वा, समाजग्मुः श्रितत्वराः ॥४८२॥ ततो ऽच्युताद्यैर्देवेन्द्रैर्नरेन्द्रैः सगरा दिभिः । तीर्थाहृतैर्जलैर्दीक्षाभिषेको विदधे प्रभोः ||४८३|| स्वामी धृताङ्गरागोऽथ, दिव्यवासांसि वा [ सि]तः । स्वयं व्यभूषि शक्रेण, किरीटाद्यैर्विभूषणैः ॥४८४|| सगरोऽथ प्रभोर्योग्यां, शिबिकां सुप्रभाभिधाम् । सुवर्ण-रत्न-माणिक्यैः, स्वशिल्पिभिरचीकरत् ॥४८५॥ शक्रेणापि निजैर्देवै, रत्नस्तम्भालिसुन्दरा । कारिता शिबिका तस्यामेवान्तरभवत्तदा ॥ ४८६॥ तां समारुह्य सौधर्माधीशदत्तकरस्ततः । न्यषदत् प्राङ्मुखे सिंहासने दिव्येऽजितप्रभुः ॥४८७|| इन्दुदीधितिगौराभ्यां चामराभ्यां जगत्प्रभुम् । वीजयामासतुर्भक्त्या, सौधर्मेशानवासव ||४८८|| "
SR No.022706
Book TitleAjitrabhu Charitram
Original Sutra AuthorN/A
AuthorDevanandsuri, Vinaypurnashreeji
PublisherOmkarsuri Gyanmandir
Publication Year2017
Total Pages502
LanguageHindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy