SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ श्री अजितजिनस्य सांवत्सरिकदानम् किन्तु भोगफलं कर्म, प्राज्यं तेऽद्यापि विद्यते । तद् भुक्त्वा समये दीक्षां कक्षीकुर्याः सदार्जव !' ॥ ४६८ ॥ इत्थं कथञ्चन स्वामी, सगरं गुरुयुक्तिभिः । प्रतिबोध्याऽवनीभारोद्धारायोमित्यभाणयत् ॥४६९॥ अथ रोदोन्तरे वाद्यनिर्घोषै [ स्तन् ] मये सति । प्रावृतत्तस्य राज्याभिषेकः प्रभुनिदेशतः ॥४७०|| भूपाला मन्त्रिणः पौराः, प्राज्यप्रीत्युल्लस[द्]हृदः । प्रणेमुर्नूतनं भूपं, सुरर्ष [भ] समप्रभम् ॥४७१॥ भगवानथ नि:शेषतीर्थङ्करमतं द्रुतम् । सांवत्सरिकमारेभे, दानं दातुं कृपाम्बुधिः || ४७२॥ तदा च ग्राम-नगर-खेट-कर्वटभूमिषु । स्थितान्युद्यान-शून्यौक:-सानुमत्कन्दरेष्वपि ॥४७३॥ प्रत्नानि क्षीणस्वामीनि, क्षीणसेतूनि च द्रुतम् । निधानानि सुपर्वाणस्तिर्यग्जृम्भकनामकाः || ४७४। २६५ शक्रादिष्टधनाधीशप्रेरितास्त्रिजगत्पतेः । दानं प्र[द]दतः शश्वत्, पूरयामासुरादरात् ॥४७५॥ त्रिभिर्विशेषकम् ॥ शृङ्गाटेषु चतुष्केषु, चत्वरेषु त्रिकेषु च । स्थानेष्वन्येष्वपि स्वामी, घोषणामित्यकारयत् ॥४७६॥ एत एतद्रुतं लोका !, अर्थजातं यदृच्छया । अहो गृह्णीत गृह्णीत, दत्तेऽसावजितप्रभुः || ४७७৷ एवं घोषणया प्राप्तानर्थिनो जगतां विभुः । कृतार्थान् सत्वरं चक्रे, जङ्गमः कल्पपादपः ॥४७८॥
SR No.022706
Book TitleAjitrabhu Charitram
Original Sutra AuthorN/A
AuthorDevanandsuri, Vinaypurnashreeji
PublisherOmkarsuri Gyanmandir
Publication Year2017
Total Pages502
LanguageHindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy