________________
२६४
श्रीअजितप्रभुचरितम् सर्गः-३ तदद्याऽपि कियन्मेऽस्ति, भोगकर्मेति चिन्तयन् । विश्वनाथोऽवधिज्ञानात्तत्क्षीणमवबुद्धवान् ॥४५७।। अत्रान्तरे ब्रह्मलोकाद्विज्ञातार्हवतक्षणाः । लोकान्तिकाभिधा देवाः, सत्सम्यक्त्वाः समागमन् ॥४५८॥ सारस्वतादयस्तेऽथ, नाथं नत्वा व्यजिज्ञपन् । सर्वजगज्जन्तुहितमीश ! तीर्थं प्रवर्त्तय ॥४५९।। ततो गतेषु तेष्वर्हन्नुवाचाऽऽहूय चक्रिणम् । 'वत्स ! राज्यं गृहाणेदं, वयं स्वीकुर्महे व्रतम्' ॥४६०।। तच्छ्रुत्वा सगरो बाढं, विमनाः साश्रुरभ्यधात् । 'अद्याऽप्रसादः किं देव !, सेवकेऽस्मिन् प्रकाश्यते ॥४६१॥ किमपश्यः क्वचिन्मन्दमेधसो मम दुर्नयम् । तद्वात्सल्यं विभो ! येन, क्षणतस्त्यक्तवानसि ॥४६२।। दुर्नयं न स्मरामि स्वं, ज्ञानपाथोनिधे ! क्वचित् । यद्वा विहितमज्ञानात्तं क्षमस्व क्षमानिधे ! ॥४६३।। त्वद्वियोगमहादुःखहेतुना जगतां पते ! । समृद्धेनाऽपि राज्येन, मम नास्ति प्रयोजनम् ॥४६४।। प्रभो ! प्रोज्झितराज्यश्चेत्, प्रव्रज्यां प्रतिपद्यसे । तन्नाथाऽहमलीवाऽऽसेऽधुनैव त्वत्पदाब्जयोः ॥४६५।। पूज्यपादपदाम्भोजवरिवस्यालसद्रसः । तरिष्यामि भवाम्भोधिमहमप्यमलक्रियः' ॥४६६।। स्वामी प्रत्यूचिवान् ‘वत्स !, युक्तमेवोक्तवानसि । प्रव्रज्याप्रतिपत्तेर्यन्नान्यत् सारं जगत्त्रये ॥४६७।।