________________
श्रीअजितप्रभोश्चिन्तनम्
२६३
प्रभुप्रभावतो लोको, न्यायाध्वन्येव सञ्चरन् । मोघीचक्रे दण्डनीति, समन्तुषु धृतोदयाम् ॥४४७।। नरेन्द्राः स्वामिनं हस्ति-तुरगादीन्यनेकशः । उपायनान्युपानीय, भेजिरे बहुमानतः ॥४४८।। प्रभुणा सुप्रसन्नेन, वीक्षितास्ते नरेश्वराः । प्राप्तत्रैलोक्यसाम्राज्यमिवाऽऽत्मानममंसत ॥४४९॥ इति पालयतः प्राज्यं, राज्यं त्रिजगदीशितुः । त्रिपञ्चाशत्पूर्वलक्षी, पूर्वाङ्गेणाऽधिकाऽगमत् ॥४५०॥ अन्यदाऽथ स्वयंबुद्धो, रहःस्थः परमेश्वरः । विज्ञानगर्भवैराग्यनिधिरेवमचिन्तयत् ॥४५१॥ धिग्दुधियः कालकूटमयमप्येतकं भवम् । तत्तद्विषयलाम्पट्याद्, गणयन्ति सुधामयम् ॥४५२॥ निखिला अपि संयोगा, वियोगान्ता ध्रुवं भवे । जनिश्च मरणान्तेति, जानन्नेनः करोति [क:] ॥४५३॥ परिग्रहग्रहग्रस्ताः, पातकाहितबुद्धयः । अथैषिणो निरीक्षन्ते, नोऽनर्थानाः परत्र हा ॥४५४॥ परिग्रहादुदीयेते, रागद्वेषौ हि देहिनाम् । ततश्च पयस: सेकाद्, द्रुरिव स्फायते भवः ॥४५५॥ श्लाघ्याः सम[स्त] विश्वेऽस्मिस्तेषां च सफलं जनुः । निःसङ्गत्वे यतन्ते ये, भववासं जिहासवः ॥४५६।। १. धृतामोघताम् । २. 'न अनर्थान् आः' इति सन्धिविश्लेषः ।