________________
२६२
श्रीअजितप्रभुचरितम् सर्गः-३ अथाऽजितप्रभुनगैरनेकैः पत्तिमानिभिः । शेषासाम्येन शिरसि, विधृताज्ञो नरेश्वरैः ॥४३६।। सुधाकरकरप्रख्ययशःपूरेण सर्वतः । दुर्भूपाऽपयशोम्लानमुखीविशदयन् दिशः ॥४३७।। गीयमानगुणग्रामो, भक्तितः किन्नरीजनैः । वासवादिष्टदेवीभिर्दर्शिताद्भुतनाटकः ॥४३८।। [स्व] प्रभावभरापास्तसमस्तोपप्लवां क्षितिम् । सलीलं पालयामास, दलिताशेषदुर्नयः ॥४३९॥ चतुर्भिः कलापकम् ॥ प्रभो राज्ये स्त्रियः सर्वाः, शीलेनाऽलङ्कृता व्यभान् । दधुराचारमात्रं तु, स्वर्णरत्नाद्यलङ्कृतीः ॥४४०।। सर्वो जनः स्वदारेभ्यः, परस्मिन् प्रमदाजने । तदाऽम्बा-जामि-तनयाव्यवस्थितिमदीदृशत् ॥४४१।। [म]नोहारिण्यपि द्रव्ये, परकीये ते तदा जनाः । विषोदग्रमहाघोरोरगबुद्धि व्यतन्वत ॥४४२॥ केलीष्वपि तदा बालाः, कलहं न मिथो व्यधुः । पशवोऽपि न शृङ्गायैर्बधन्ते स्म जनान् क्वचित् ॥४४३।। रोगाः कस्यापि नो चक्रुरङ्गभङ्ग महोल्वणाः । व्यन्तराद्या अपि तदा, न व्यथाहेतवोऽभवन् ॥४४४|| ववर्ष वारिदः काले, वारि नोनं न चाऽधिकम् । वसुधा च सकृत्सित्ता, फलौघमसकृद्ददौ ॥४४५॥ भानुर्भानूच्चयं नाऽतितापधायिनमातनोत् । पान्थसार्थखिदाच्छेदाऽधिकं वातोऽपि नो ववौ ॥४४६॥