SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ श्रीअजितप्रभो राज्याभिषेकः २६१ सदशान्यमृताम्भोधिडिण्डीरविशदान्यथ । वसनानि न्यवस्तेशो, रसेश्वरनिदेशतः ॥४२६।। सर्वाङ्गीणमङ्गरागं, प्रभोर्वाराङ्गना व्यधुः । चन्द्रबिम्बात् समानीतैरमृतैरिव चन्दनैः ॥४२७॥ मौक्तिकाभरणैः स्वामी, विशेषेण व्यराजत । पूर्वजन्मसमाचीर्णैः, प्रस्फुटैः सुकृतैरिव ॥४२८॥ विभोर्मूर्द्धनि कोटीरं, भूपो माणिक्यभासुरम् । स्वयं न्यास्थन्निदाघाऽर्कवदुर्दर्शमरातिभिः ॥४२९॥ चान्दनस्तिलको राज्ञा, भर्तुर्भाले स्वयं कृतः । राज्यलक्ष्या निवेशाय, गद्दिकानुकृतिं दधौ ॥४३०॥ हैमासनस्थः सर्वाङ्गसङ्गिभासुरभूषणः । मेरुशृङ्गस्थकल्पद्रुरिवाऽभाज्जगदीश्वरः ॥४३१॥ धृतच्छत्रश्चलच्चारुचामरः शुशुभे विभुः । पूर्वाद्रिरिव शृङ्गस्थेन्दुबिम्बः शुचिनिर्झरः ॥४३२॥ अथाऽजितोऽपि सगरं, यौवराज्ये न्यवेशयत् । उचितान्नैव कृतिनो, भ्रश्यन्ति हि कदाचन ॥४३३॥ तदैवाऽजितनाथेन, कृतनिष्क्रमणोत्सवः । जितशत्रुः सदेवीकोऽप्यूरीचक्रे गुरोर्वतम् ॥४३४।। पालयित्वा च चारित्रं, शुक्लध्यानं समाश्रितः । उत्पाद्य केवलज्ञानं, क्रमाल्लेभे परं पदम् ॥४३५॥ १. 'गब्दिकोऽनुकृति' मिति पु.प्रे. ।
SR No.022706
Book TitleAjitrabhu Charitram
Original Sutra AuthorN/A
AuthorDevanandsuri, Vinaypurnashreeji
PublisherOmkarsuri Gyanmandir
Publication Year2017
Total Pages502
LanguageHindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy