________________
२६०
श्रीअजितप्रभुचरितम् सर्गः-३ 'हे पुत्रावयमावाभ्यां, भवो भीषणदुःखदः । मोक्ष्यते वृद्धकामाभ्यां, मोक्षसौख्ये सनातने ॥४१५॥ भजतं तधुवां राज्यं, यौवराज्यं च वत्सकौ ! । दीक्षार्थमनुजानीतमावामद्याऽविलम्बितम्' ॥४१६।। अजितेशोऽवदद्दीक्षां, शर्मारामैकसारणिम् । उपादित्तूंस्तातपादान्न निषेधामि सर्वथा ॥४१७॥ मोक्षार्थमुद्यतं तातं, यो भक्त्याऽपि निषेधति । स नूनं तनयव्याजाद्, द्विषन्नेव प्रकीर्तितः ॥४१८॥ तथाऽपि तात ! वच्मीदं, मनो मोदयितुं मम । लघुतातो भुवं शास्तु, निरस्तानयपद्धतिः' ॥४१९।। सुमित्रोऽप्यभ्यधात् 'पूज्यपादान् मुञ्चे न कर्हिचित् । गरीयसी गुरूणां हि, सेवा चक्रिपदादपि ॥४२०॥ पूज्यपादा ! इदं राज्यं, ध्यात्वा दुःखैककारणम् । त्यजन्ति तत्र मे वाञ्छा, कथङ्कारं विवेकिनः' ॥४२१॥ अजितेशोऽथ तं स्माह, 'राज्यं चेन्न जिघृक्षसि । तात ! भावयतिर्भूत्वा, तिष्ठ प्रीत्यै तथापि नः ॥४२२।। जितशत्रुरपि स्माह, 'बन्धो ! निर्बन्धकारिणम् । मा स्माऽवजीगणः सूनुमयं साक्षाद्धि तीर्थकृत् ॥४२३।। तीर्थेऽस्य स्वेप्सितं कुर्या, गृह एव स्थितोऽधुना । प्रतिपद्यस्व भावेन, यतितां भवनाशिनीम्' ॥४२४॥ तद्वचः प्रतिपेदाने, सुमित्रे मेदिनीश्वरः ।। अजितस्वामिनं राज्येऽभ्यषिञ्चत् शुभवासरे ॥४२५॥