________________
२५९
जितशत्रुनृपस्य दीक्षाग्रहणेच्छा अजितेशो जिताशेषहषीकोऽपि दवोपमम् । भवं नानाव्यथाज्वालाशताकीर्णं विदन्नपि ॥४०४॥ सिद्धिसङ्गोल्लसद्रागोऽप्युत्थितेर्भोग्यकर्मणा[म्] । रेमे मदनलेखादिप्रेयसीभिः प्रमोदतः ॥४०५।। युग्मम् ॥ कदाचन वरारामे, क्रीडाद्रिषु कदाचन । कदाचित् केलिवापीषु, कदाचित् सिन्धुरोधसि ॥४०६॥ सुरीभिरिव सुत्रामा, रामाभिः परितो वृतः । सगरः सादरं क्रीडा, नानारूपा विनिर्ममे ॥४०७|| युग्मम् ॥ अन्येधुर्विजयादेव्या, विवृण्वत्या कचोच्चयम् । दर्शितपलितं वीक्ष्य, जितशत्रुरचिन्तयत् ॥४०८॥ अहो ! विपाककटुकविषयव्याकुलाशयः । इयच्चिरं स्थितो वेश्मन्यहं कापुरुषोऽभवम् ॥४०९।। यतोऽस्माकं कुले पूर्वैरदृष्टपलिताङ्करैः । चारित्रं कर्मकक्षौघलवित्रं जगृहेऽखिलैः ॥४१०॥ जन्म-मृत्यु-जरा-ऽऽतङ्क-दारिद्र्यैर्दारुणं हहा ! । पश्यन्नपि भवं दुःखमयं नाऽङ्गी जिहासति ॥४११॥ तदहो मोहमुत्सृज्य, विवेकमवलम्ब्य च । अधुना मम निर्गन्तुं, युक्तं संसारचारकात् ॥४१२॥ ध्यात्वेति युवराजाय, सुमित्राय न्यवेदयत् । सोऽप्याह युक्तमेवैतदत्रार्थेऽनुचरोऽस्म्यहम् ॥४१३॥ ततस्ताभ्यां चिकीर्षुभ्याममुत्रहितमादरात् । सम्पूर्णाष्टादशपूर्वलक्षावित्युदितौ सुतौ ॥४१४॥