SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ २५८ श्रीअजितप्रभुचरितम् सर्ग: ३ आविर्भूतमहोत्साहा, अनृत्यंस्त्रिदशस्त्रियः । किन्नर्यो मधुरध्वानं, जगुर्विश्वेशितुर्गुणान् ॥३९३॥ तां कन्यामुपयम्यैवं तोषयन् भुवनत्रयम् । स्वसौधं प्रति विश्वेशः, प्रास्थितैरावणं श्रितः || ३९४ || श्रुत्वा मङ्गलतूर्याणां रवं दिक्षु प्रसृत्वरम् । विमुच्याऽशेषकार्याणि, पौर्यो द्रष्टुं दधाविरे ॥ ३९५ ॥ धन्या मदनलेखेयमेकैव हरिणीदृशाम् । यया लब्धोऽजितस्वामी, दिवस्पतिनतः पतिः ॥३९६॥ जन्माऽस्माकमपि श्लाघ्यं, यदयं भुवनोत्तमः । दृगानन्दकरो दृष्टः, प्रवृत्तोद्वाहमङ्गलः ॥३९७॥ इत्थमानन्दनिचिताः, पौरीणां प्रणया [ द्] गिरः । शृण्वन् प्रभुः प्रियायुक्तोऽलञ्चकार स्वमन्दिरम् ॥३९८|| विशेषकम् ॥ नत्वा प्रभुं समापृच्छ्य, जितशत्रुं च वासव: । सुरैर्वृतः क्षणादेव, समवाप त्रिविष्टपम् ॥३९९ ॥ स्वर्ण-मौक्तिक-माणिक्य-सद्वस्त्रादिप्रदानतः । वधूं मदनलेखां तां, सच्चकार प्रभोः पिता ||४००| श्रीकीर्त्तिधवलोऽप्युच्चैः, स्वर्णाश्वेभ-रथांऽशुकैः । सत्कृत्य निजदेशाय, व्यसर्जि [ज]तशत्रुणा || ४०१ ॥ परःशतानां कन्यानामन्यासामपि पार्थिवः । उपरोध्य जगन्नाथमुपयाममचीकरत् ||४०२|| भूभर्त्ता भूरयः कन्या, देवकन्योपमा मुदा । सादरं सगरेणापि, व्यवाह्यन्त महामहात् ॥४०३॥
SR No.022706
Book TitleAjitrabhu Charitram
Original Sutra AuthorN/A
AuthorDevanandsuri, Vinaypurnashreeji
PublisherOmkarsuri Gyanmandir
Publication Year2017
Total Pages502
LanguageHindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy