________________
श्री अजितजिनस्य पाणिग्रहणम्
तयोत्तार्य पुरो मुक्तं, स्वामी सलवणानलम् । सरावसम्पुटं पदूयुक्तवामांह्रिणाऽभनक् ॥ ३८३ || क्षिप्त्वा कण्ठेऽथ कौसुम्भं, वस्त्रमाकृष्य च प्रभुः । व[वा] मौतृगृहं नीतो, न्यषदत् कनकासने ॥ ३८४॥ श्व[श्वा]
शक्रेण दक्षिणे पाणौ, बद्धकङ्कणयोरभूत् । वर-वध्वोरथाऽन्योन्यं, दर्शनं नूतनश्रियोः ||३८५ ॥ पिष्ट्वा शमी-पिप्पलयोरेकत्रोद्गतयोस्त्वचौ । हस्तापं विदधिरे, वधूहस्तेऽथ सुस्त्रियः || ३८६॥ समयः समयोऽस्तीति, स्फुरत्युच्चैर्ध्वनौ प्रभुः । शुभलग्ने वधूपाणि जग्राह निजपाणिना ॥ ३८७॥ ललितैर्धवलैः स्त्रीणां तूर्याणां निनदैः परैः । बन्दिनां तारवाग्भिश्च, व्यानशे गगनं तदा ॥ ३८८॥ तारामेले ततो वृत्ते, शची- शक्रौ वधू-वरम् । बद्धाञ्चलं पृक्तपाणि, निन्यतुर्वेदमन्दिरम् ॥३८९॥ भ्राम्यते परितो वह्निं, प्रभवे प्रियया सह । हस्त्यश्व-रथ- पत्त्यादि, श्रीकीर्त्तिधवलो ददौ ||३९०|| चतुर्षु मङ्गलेष्वेवं, प्रवृत्तेषु महामहात् । वर-वध्वोर्व्यधाच्छक्रः, कराञ्चलविमोचनम् ॥३९१॥ स्वामिने कीर्त्तिधवलः, पाणिमोक्षणपर्वणि । ददावनुत्तरामोदो, महान्तं देशमेककम् ॥३९२॥
१. पादुकायुक्तवामपादेन । २. लग्नस्थानम् । 'मायरु' इति भाषायाम् ।
२५७