SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ २५६ श्रीअजितप्रभुचरितम् सर्गः-३ विधियुक्तां विनिर्माय, स्नपितालङ्कृतां कनीम् । नीत्वा मातृगृहे स्वर्णविष्टरे विन्यवेशयत् ॥३७२॥ युग्मम् ॥ अत्रान्तरे सुधर्मेशः, प्रभोरुद्वाहमङ्गलम् । विज्ञायाऽवधिज्ञाना[द्] द्रा[गा]गमत् सपरिच्छदः ॥३७३॥ प्रणम्य स्वामिनं शक्रः, स्नपयित्वा विलिप्य च । सदशश्वेतवासोभिभूषणैश्च व्यभूषयत् ॥३७४॥ प्रभुः कैलाशसङ्काशमथारूढोऽभ्रमुप्रियम् । धृतच्छत्रः शिरस्युच्चैश्चामरैर्वीजितोऽभितः ॥३७५॥ उत्तीर्यमाणलवणः, सुरीभिः पार्श्वयोर्द्वयोः । तोष्ट्रय्यमानः सोल्लासं, सुरासुरनरोत्करैः ॥३७६।। विकाशिनेत्रपद्माभिस्तरुणीभिः सविभ्रमम् । दृश्यमानो दय॑मानो, विस्मितैर्नागरैर्मिथः ॥३७७।। नृविमानस्थया मात्रा, सखीवृन्दपरीतया । वीक्षितास्यो मुहुः प्रीत्या, कलो[लू]लुविलासया ॥३७८।। वारणाऽश्वादियानस्थैः, सामन्तानां शतैर्वृतः । जनकस्य पुरोगस्य, जनितामन्दसम्मदः ॥३७९॥ शक्रेण वेत्रिणोत्सारिताग्रेचरनरामरः । नादाद्वैते [मा] नवानां, मण्डपद्वारमासदत् ॥३८०।। षड्भिः कुलकम् ॥ तत्र त्यक्तवतो यानं, शक्रहस्तावलम्बिनः । जगत्प्रभोर्ददावघु, श्वश्रूराचारकोविदा ॥३८१॥ सा ललाटं विभोरग्रजाग्रत्कौसुम्भवाससा । मन्थेन मुसलेनापि, त्रिरस्पाक्षीत् प्रमोदभाक् ॥३८२।।
SR No.022706
Book TitleAjitrabhu Charitram
Original Sutra AuthorN/A
AuthorDevanandsuri, Vinaypurnashreeji
PublisherOmkarsuri Gyanmandir
Publication Year2017
Total Pages502
LanguageHindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy