________________
२५५
श्रीअजितजिनस्य पाणिग्रहणम् लग्नस्यासन्नभावेन, मितैरेव प्रयाणकैः । श्रीकीर्तिधवलः प्राप, साकेतनगरान्तिकम् ॥३६२॥ तद्वृत्तं ज्ञापनायाऽऽशु, सम्प्राप्तान् प्रवरान्नरान् । सत्कृत्य सम्मुखोऽचालीज्जितशत्रुनृपोऽप्यथ ॥३६३॥ रिपुमातङ्गहर्यक्षौ, वलक्षौ यशसा भृशम् । कलासु दक्षौ पद्माक्षौ, ततस्तौ मिलितौ नृपौ ॥३६४।। गाढं मिथः समाश्लिष्य, कुशलप्रश्नतत्परौ । तावशिश्रियतामेकं, स्वर्णस्यन्दनमद्भुतम् ॥३६५॥ हृद्ये सौधे पुरासन्ने, जितशत्रुनृपस्ततः । श्रीकीर्तिधवलं भूपं, स्थापयामास सादरम् ॥३६६।। विजया चन्द्रकान्ता च, राज्यौ सह सखीजनैः । कामं विवाहकार्येषु, वैयग्यं दधतुस्तदा ॥३६७॥ स्तम्भाग्रस्थापितानेकशालभञ्जीमनोहरः । मुक्ताप्रालम्बभृन्नानाचन्द्रोदयविराजितः ॥३६८।। विशालतोरणस्तम्भस्फूर्जद्वन्दनमालिकः । कल्याणकलसोद्भासिद्युतिविद्योतिताम्बरः ॥३६९॥ अनेकद्युतिमद्रत्ननिकराबद्धभूतलः । लसद्ध्वजव्रजो रेजे, तत्र वीवाहमण्डपः ॥३७०॥ विशेषकम् ॥ अथ लग्ने समासन्नतरे तूर्णं कुलस्त्रियः । गायन्त्यो धवलान्युच्चैर्वर्णकोद्वर्णकस्थितिम् ॥३७१॥ १. 'धोळ' इति भाषायाम् ।