________________
श्रीअजितप्रभुचरितम् सर्गः - ३
२५४
कुमार्यपि श्रुताशेषवृत्तान्ता तोषपोषभाक् । दध्यौ धन्याऽस्मि यत् स्वामी, मां वाचाऽपि प्रपन्नवान् ॥३५१॥
कुतस्तन्मे पुनर्भाग्यं, येनाऽयं लभ्यते वरः । न हि सम्भाव्यते क्वापि, मरौ कल्पतरूद्भवः || ३५२ || तस्यैव वा पदद्वन्द्वध्यानोत्थैः सुकृतैर्मम । मनोरथोऽयमसमः, सिद्धि प्राप्स्यति निश्चितम् ॥ ३५३॥ पीयूषनिर्मितमिव, कदाऽहस्तद्भविष्यति ।
यत्र द्रक्ष्यति मां दृष्ट्या, स्निग्धया जीवितेश्वरः || ३५४|| इति ध्यानसुधाध्वस्तसन्तापां तां पिताऽवदत् । 'वत्से ! पुण्यैः प्रपूर्णस्ते, दुर्घटोऽपि मनोरथः ' ॥ ३५५॥ अत्रान्तरे समायातः, कुमारीसुकृतोदयात् । दैवज्ञोऽवनिनाथेन, पप्रच्छे लग्नमुत्तमम् ॥३५६॥ विचार्य सोऽप्यभाषिष्ट, 'नरेश ! दशमेऽहनि । अस्त्यनेकगुणोद्भासि, लग्नं दोषकणोज्झितम् ॥ ३५७|| ततस्ततप्रमोदस्तं, विसृज्य नरनायकः । कर्त्तुं विवाहसामग्रीं, सचिवेशं समादिशत् ॥३५८॥ अज्ञापयच्च सेनान्यं, पृतनां प्रगुणीकुरु । ढक्कां वादय यात्रायै, स्वजनानपि मेलय ॥३५९॥
कन्यां गृहीत्वा म[द]नलेखामेतां स्वयंवराम् । साकेतं सत्वरं यामो, नेदीयो लग्नमेति यत् ॥३६०||
तथाकृतेऽथ सेनान्या, सैन्यकम्पितभूतलः । वाद्यनिर्घोषनिचितदिग्भागः प्राचलन्नृपः ॥ ३६१ ॥