SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ २५३ श्रीअजितजिनस्य पुरः सचिवविज्ञप्तिनिवेदनम् अत्रान्तरेऽजितेशोऽपि, तेजसाऽतिनभोमणिः । आनन्दकत्वेनाऽतीन्दुर्दानेनाऽतिसुरद्रुमः ॥३४०॥ जनयन् विस्मयं सामाजिकानां रूपसम्पदा । भटैरनुगतो भक्त्या , सदसं तां समासदत् ॥३४१॥ युग्मम् ॥ महामुदा प्रदत्तं च, महार्ह विष्टरं श्रितः । पेशलैर्वचनैर्भूमिपालेनैवमभण्यत ॥३४२॥ 'अतुच्छगुणरत्नाब्धे !, वत्स ! त्वां वच्मि किञ्चन । यदि मे नाऽवजानासि, वचश्चतुरशेखर ! ॥३४३।। अथाऽब्रूताऽजितस्वामी, 'निःशङ्ख भूपते ! वद । सुपुत्रैः खलु तातस्य, वचनं नैव लथ्यते' ॥३४४|| अथ विश्वम्भराधीशः, पुरस्तादजितेशितुः । विज्ञप्ति ताममात्यस्य, सविशेषां न्यवेदयत् ॥३४५।। स्वामी भवविरक्तोऽपि, रक्तोऽपि च शिवश्रियाम् । विज्ञाताशेषतत्त्वोऽपि, भोगेभ्यो विमुखोऽपि च ॥३४६।। अत्याग्रहवशाद् भोगफलकर्मोदयादपि । तत्तातवचनं मेने, पाणिपीडनगोचरम् ॥३४७।। युग्मम् ।। पितरौ स च मन्त्रीन्दुः, पौराः सुरवरा अपि । सम्मदं निर्भरं भेजुः, स्वीकृतोपयमे प्रभौ ॥३४८।। ततो नृपेण बहुधा, सम्मान्याऽमात्यपुङ्गवः । विसृष्टः सत्वरं गत्वा, स्वस्वामिनमवर्द्धयत् ॥३४९।। महानन्दप्रकर्षेण, रयाद्रोमाञ्चकञ्चकम् । श्रीकीर्तिधवलोऽधत्त, सप्रियोऽपि तदा वपुः ॥३५०॥
SR No.022706
Book TitleAjitrabhu Charitram
Original Sutra AuthorN/A
AuthorDevanandsuri, Vinaypurnashreeji
PublisherOmkarsuri Gyanmandir
Publication Year2017
Total Pages502
LanguageHindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy