________________
२५२
श्रीअजितप्रभुचरितम् सर्गः-३ एवं विकल्पकल्लोलमालाभिः प्रेरितेव सा । अपतद्धरणीपीठे, झटित्येव विचेतना ॥३२९॥ ततः सखीजनै ढं, व्याकुलैः सा सरोजदृक् । शिशिरैरुपचारैर्द्राक्, चैतन्यं समवाप्यत ।।३३०।। तथापि दुर्लभजनानुरागवशतोऽधिकम् । दुःखं वहन्ती नाऽजल्पज्जल्पिताऽपि सहस्रधा ॥३३१।। अथो कथञ्चिदाश्वास्य, सखीभिर्नृपसद्म सा । नीताऽपि निवृत्तिं प्रापद्विरहार्तिप्रपीडिता ॥३३२॥ दुःखसङ्घट्टिविच्छायमास्यं तस्या मृगीदृशः । तमोग्रस्तशशाङ्केनाऽनुहारमकरोत्तराम् ॥३३३।। तत्सखीमुखतः सर्वं, तद्वृत्तं जज्ञिवानृपः । तामाश्वास्याऽऽशु सचिवं, मां त्वां प्रति विसृष्टवान् ॥३३४॥ जितशत्रुमहीनेतः !, किं बहूक्त्या ? तवाऽऽत्मजम् । यदि नाप्स्यति तद्बाला, सा विमोक्ष्यति जीवितम् ॥३३५।। श्रुत्वेति साकेतपतिः, सस्मितं तमभाषत । 'सचिवेन्दो ! युक्तियुक्तमदः कार्यं किमुच्यते ॥३३६।। परमाजन्म भोगेभ्यो, विमुखस्तनयो मम । प्रपत्स्यते न वा प्राणिग्रहमेतन्न बुध्यते' ॥३३७।। निशम्य तद्वचः कार्यविघ्नभूतं स धीसखः । मूनि वज्राहत इव, हृदये दुदुवेतराम् ।।३३८।। नृपः प्रोवाच 'भो मन्त्रिन् !, विषादं मुञ्च मानसात् । स्वीकार्यः सुत आवाभ्यां, विवाहमुपरोध्य वै' ॥३३९।।