________________
जितशत्रुनृपस्य सचिवेन सह वार्तालाप:
ततः प्रभृति भूभर्त्ता, सप्रियश्चिन्तयोज्झितः । निनाय समयं सौख्यमयं विगलितारतिः || ३१८ || कदाचन वसन्तत, सध्रीचीवृन्दवेष्टिता । सा कन्या नगरोद्यानमगमद् गजगामिनी ॥३१९॥ चम्पका-शोक- माकन्द-तमाल- [ब] कुलादिकान् । सखीभिर्दर्शितान् वृक्षान्, पश्यन्ती तत्र साऽचलत् ॥३२०॥ तस्योद्यानस्य मध्येऽथ, श्रीनन्दननिकेतने । गीतं किन्नरनारीभिरार्याद्वयमदोऽशृणोत् ॥३२१॥ जयति विनीताभर्त्तुर्जितशत्रोर्नन्दनो जगद्वन्द्यः । श्रीमानजितस्वामी, चामीकरजिततनूकान्तिः || ३२२|| [ आर्या ] किं कार्यं स्वर्मणिना ?, किं वा कल्पद्रुमाऽमरगवीभ्याम् ? । सर्वार्थसिद्धिदश्चेदजितेशः सेवितुं लभ्यः ॥ ३२३॥ [ आर्या ]
श्रुत्वेत्यजितनाथस्य, गुणानन्त्यनिवेदकम् । आर्याद्वयमभूदेषा, विवशा मान्मथैः शरैः ॥ ३२४॥ अचिन्तयच्च चेन्नाथमजितेशमवाप्नुयाम् । तदा मे मानुषं जन्म, सफलं जीवितं तथा ॥ ३२५॥ असारोऽप्येष संसारस्तत्सङ्गात् सारतां श्रयेत् । शशिसङ्गात् कुरङ्गः किं भुवनोपरि न स्थितः ? ॥ ३२६ ॥ यदि मे मन्दभाग्याया, नाऽसौ स्यात् प्राणवल्लभः । जीवितेनाऽमुना नूनं किमन्तर्गडुना ततः ॥३२७||
जन्मन्यस्मिंस्तदेकोऽसौ शरण्यः शरणं मम । अन्यथा मरणं दीप्तहव्यवाहनिषेवणात् ॥३२८॥
,
२५१