________________
२५०
श्रीअजितप्रभुचरितम् सर्गः-३ देव ! कोऽप्यद्भुताकारो, नरः केकीव वारिदम् । त्वां द्रष्टुं भृशमुत्कण्ठाकलितो द्वारि वर्त्तते ॥३०७|| द्रुतं प्रवेशयेत्युक्त्या, क्षितिनाथस्य वेत्रिणा । दर्शिताऽध्वा स आगत्य, नत्वाऽऽस्ते स्म यथोचितम् ॥३०८।। दृशा प्रसन्नया वीक्ष्य, क्षमापेनाऽयमभाष्यत । 'कुतः प्राप्तोऽसि कार्येण, केन वेति निवेदय' ॥३०९॥ अथाऽसावब्रवीदेव !, महासालाभिधं पुरम् । विद्यतेऽवद्यनिर्मुक्तजनराजिविराजितम् ॥३१०।। श्रीकीर्तिधवलस्तत्र, भूभर्त्ता सान्वयाभिधः । प्रजाः पालयति प्रास्तसमस्तारातिसन्ततिः ॥३११॥ तस्याऽस्ति तनया चन्द्रकान्ताकुक्षिसमुद्भवा । नाम्ना मदनलेखेति, मदनोज्जीवनौषधिः ॥३१२॥ सा शैशवमतिक्रम्य, प्राप्तप्रौढकलावलिः । कलयामास तारुण्यं, कामकेलिनिकेतनम् ॥३१३।। तस्या अनुत्तरं रूपं, मन्येऽजस्रं निरूपयन् । शिश्राय सुरसन्दोहो, नेत्राणामनिमेषताम् ॥३१४॥ तस्यां रूपपराभूतगीर्वाणमपि कञ्चन । अनिच्छन्त्यां नरं तातो, वरचिन्तार्णवेऽपतत् ॥३१५।। कुलदेव्यन्यदा स्वप्ने, जगाद जगतीपतिम् । 'मुधैव चिन्तयाऽऽत्मानं, क्लेशकोटौ क्षिपः स्म मा ॥३१६।। यदमुष्या भवत्पुत्र्याः, प्राज्यपुण्यैकसद्मनः । जगत्स्तुत्यो जगच्चिन्तामणिर्भर्त्ता भविष्यति' ॥३१७॥