________________
देहवर्णनादि
२४९
अनुत्तरान्तदेवेभ्य, आहारकतनोरपि । गुणभृद्भयोऽपि चोत्कर्ष, रूपेणाऽधत्त तीर्थकृत् ॥२९८॥ तौ कुमारौ कुलाधारौ, जितमारौ वपुःश्रिया । गुणोदारौ राजलक्ष्म्याः , सारौ हाराविवोज्ज्वलौ ॥२९९॥ जितशत्रुनृपः पश्यन्, हल्लसत्प्राज्यसम्मदः । नेत्रे दधार पीयूषपूरिते इव शीतले ॥३००॥ युग्मम् ॥ तारुण्यालङ्कृतौ वीक्ष्य, तौ दध्युमंगलोचनाः । एतौ गृहीष्यतो यासां, पाणिं ताः स्त्रीषु उत्तमाः ॥३०१॥ नृपोऽन्येद्युः सुधर्माभां, सभां सामन्तमन्त्रिभिः । वृतो विभूषयामास, द्यां कलामंदिवोडुभिः ॥३०२॥ नर्त्तका नृत्तभङ्गीभिर्गाथकाश्चारुगीतिभिः । ततादिकचतुर्भेदवाद्यैर्वाद्यकलाविदः ॥३०३।। कथाभिः सद्रसोल्लासरम्याभिः कथकास्तथा । चमत्कारकरैः काव्यैरुदाराथैः कवीश्वराः ॥३०४॥ नर्मोक्तिभिर्नर्मकृतः, शिल्पैरपि च शिल्पिनः । यत्नात् सन्तोषयामासुस्तदानीं क्षितिनायकम् ॥३०५॥ त्रिभिविशेषकम् ।। अथ बिभ्रत् करे वेत्रं, वेत्री विनयवामनः । आगत्य नृपतिं बद्धाञ्जलिरेवं व्यजिज्ञपत् ॥३०६।।
१. अनुत्तरवासिदेवेभ्यः । २. अत्र 'न सन्धिः ' (सि. हे. श. १३५२१) सूत्रेण सन्ध्यभावः । यथा व्याश्रयमहाकाव्ये-'कण्ठलग्नाः सदा स्त्रीणाम् खेलन्ति इह षिङ्गकाः । विरामे न प्रवर्तन्ते कदाचित्सन्धयो यथा' ॥१/११० ॥