SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ २४७ बाल्यक्रीडा श्रीमानजितनाथोऽपि, सुरैर्भक्तिपरैः सदा । पद्मखण्डो यथा हंसैः, सेव्यते स्म प्रयत्नतः ॥२७७।। भृत्यभावं प्रभोर्मन्यमाना बहुसुरोत्तमाः । तृणाय मत्वा हित्वा च, स्वःसौख्यं द्रुतमाययुः ॥२७८॥ सवयोभूय चाऽजस्रं, प्रभूतप्रीतिबन्धुराः । नानाविधाभिः क्रीडाभिश्चिक्रीडुः प्रभुणा सह ॥२७९।। प्रभोरादिशतः कामं, बद्धतृष्णाश्च सादरम् । पपुर्वचोऽमृतं चञ्चरीकाः पद्ममकरन्दवत् ॥२८०॥ केचिदासन् प्रतीहाराः, केचिच्छत्रमधारयन् । अस्त्राण्यबिभरु: केऽपि, केचनाऽप्यधरन् स्थगीः ॥२८१॥ केचनोपानहौ स्वीयहस्ताभ्यामवहन् सुराः । धन्यम्मन्यास्त्रिभुवनेशितुः क्रीडां वितन्वते ॥२८२॥ सगरोऽपि कलाचार्याद्, ग्राहं ग्राहं कलावलीम् । दिने दिनेऽजितेशाय, व्यजिज्ञपदुदारधीः ॥२८३॥ सगरेणाऽऽदरात् पृष्टो, ज्ञानत्रयधरः प्रभुः । अभग्नान् पाठकेनापि, संशयानच्छिनत्तराम् ॥२८४॥ वाजिशिक्षां हस्तिशिक्षा, राधावेधाद्यपीतरत् । अभ्यस्तं दुर्घटं प्रादुश्चक्रे चक्री प्रभोः पुरः ॥२८५।। कलासु सगरस्याऽऽसीन्यूनं यत् किञ्चनापि तत् । अशिक्षयत् प्रभुस्तादृक्, शिक्षकस्तादृशस्य हि ॥२८६।। अथ तौ बाल्यमुल्लङ्घ्य, सम्प्राप्तौ मध्यमं वयः । दस्राविव धरां प्राप्तौ, कस्य नो जहतुर्मनः ? ॥२८७।।
SR No.022706
Book TitleAjitrabhu Charitram
Original Sutra AuthorN/A
AuthorDevanandsuri, Vinaypurnashreeji
PublisherOmkarsuri Gyanmandir
Publication Year2017
Total Pages502
LanguageHindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy