________________
श्रीअजितप्रभुचरितम् सर्गः ३
२४६
धात्र्यो धर्तुं न यत्नात्तौ शेकुः स्वच्छन्दचारिणौ । गतेः प्रस्खलयामासुस्ततश्चाटुप्रपञ्चनैः ॥२६६॥
तावासेचनकौ भूपाः, पश्यन्तः परमादरात् । सततं निजनेत्राणां, निनिन्दुः सनिमेषताम् ॥२६७॥
अङ्कादङ्कं नीयमानौ, महीपैः प्रेमपूरतः । तौ मरालाविवाऽम्भोजादम्भोजं रेजतुस्तराम् || २६८|| सह विश्वप्रमोदेन, सार्द्धं वर्ष्मश्रियाऽपि च । उल्लासं बिभरामास, तयोर्बुद्धिर्दिने दिने ॥ २६९ ॥ मति-श्रुता-ऽवध्यभिधैर्विज्ञानैः सहजन्मभिः । स्वयमेव कलाः सर्वा, अज्ञास्ताऽजिततीर्थकृत् ॥२७०॥ सगरस्त्ववनीशस्य, निदेशेन शुभेऽहनि । आरेभे शुभधीः [शीघ्रं ], कलाचार्यात् कलाग्रहम् ॥२७१॥ प्राच्यपुण्यचयोद्भूतप्रज्ञातिशयभासुरः ।
आनन्दयदुपाध्यायमयं गृह्णन् कलाः कलाः ॥ २७२॥ पद- वाक्य प्रमाणेषु, निष्णातत्वमवाप्य सः । धर्माऽर्थ- कामशास्त्राणां, रहस्यानि व्यचारयत् ॥ २७३॥
अलक्ष्यादानसन्धानकर्षमोक्षः शितैः शरैः । वेध्यानि विद्धवानेष, दूरसूक्ष्मचलान्यपि ॥ २७४॥ छुरी-खड्ग-गदा-दण्ड-कुन्त-गोफण-पशुभिः । अपरैश्चापि शस्त्रैः सोऽजस्रमभ्यास्यदाहवम् ॥ २७५॥ विनयाद्यैर्गुणैः सारैर्भूषणैरिव भूषितः । व्रियते स्म स सोत्कण्ठं, कलाभिः सुभगोत्तमः ॥२७६॥