________________
जितशत्रुनृपविहितोऽजितजिन-सगरचक्रिजन्मोत्सवः
२४५
तदा मुदा समानिन्युरुपायनपरम्पराम् ॥२५४॥ अनेकमन्तुकर्त्तारोऽप्यरयोऽपि च बन्धनात् । मोचिता भूभुजा जाते, भवबन्धविमोचके ॥२५५॥ अप्रीण्यन्ताऽथिनो द्रव्यैः, स्वान्यभेदाविवक्षया । पूजाश्चाऽर्हनिकाय्येषु, प्रावर्त्यन्त महाद्भुताः ॥२५६।। शशंसेव पुरी स्फूर्जन्मङ्गलातोद्यनिस्वनैः । जन्माऽर्हच्चक्रिणोविश्वत्रयाय सुखदायकम् ॥२५७॥ महोत्सवमयी सर्वसौख्योच्चयमयी पुरी । बभूवैवं दशाहानि, भूमीश्वरनिदेशतः ॥२५८॥ अथ भूपो द्वादशेऽह्नि, सम्मील्य स्वजनव्रजम् । आहारैर्भूषणैः पुष्पैस्ताम्बूलैः परितोष्य च ॥२५९॥ अक्षयूते मया जिग्ये, गर्भस्थस्याऽस्य न प्रसूः । इति स्वसूनोरजित, इति नाम विनिर्ममे ॥२६०॥ युग्मम् ॥ भ्रातुष्पुत्रस्य तु प्राज्यप्रमोदापूर्णमानसः । चकार सगर इति, नाम स्थामनिधिर्नृपः ॥२६१॥ पञ्चभिः शक्रनिर्दिष्टाऽप्सरोभिरजितप्रभुः । पाल्यमानो व्यवर्धिष्ट, विष्टपेश्वरपूजितः ॥२६२।। सगरः पुनरुर्वीशादिष्टधात्रीभिरन्वहम् । लालितः कलयामास, वपुर्लावण्यमुज्ज्वलम् ॥२६३।। द्वावप्यद्भुततेजस्कौ, स्फुरदद्वैतविक्रमौ । भूमीपतिर्निजोत्सङ्गेऽधारयत्तौ मुहुर्मुहुः ॥२६४॥ तनयाङ्गपरिष्वङ्गरङ्गनिर्भरनिवृती । जनन्यावतितुच्छां ताममंसातां सुधामपि ॥२६५॥