________________
२४४
श्रीअजितप्रभुचरितम् सर्गः-३ चेट्यो मिथः परां स्पर्द्धा, वहन्त्यो वेगवत्तराः । भूमिनाथं वर्द्धयितुमधावन्त समन्ततः ॥२४४।। युग्मम् ॥ वद्धर्यसे वय॑से देव !, जन्मना पुत्ररत्नयोः । द्रुतमित्यूचुषी काचिल्लेभे रत्नचयं नृपात् ॥२४५॥ एवं निवेदयत्यङ्गजन्मजन्म परिच्छदे । ददद्दानं दधौ पूर्वापरभेदं न भूधनः ॥२४६॥ आरक्षपुरुषान् दक्षमुख्यो मुदितमानसः । पुत्रजन्मोत्सवं पुर्यां, विधातुं च समादिशत् ॥२४७॥ गन्धोदकच्छटाशान्तपांशुं कीर्णमणीवकाम् । प्रतिद्वारस्फुरत्स्वर्णकुम्भतोरणसुन्दराम् ॥२४८॥ कृष्णागरुप्रभृत्युद्यद्भूपसद्गन्धबन्धुराम् । बद्धाऽऽनभःपताकौघसंशोभितचतुष्पथाम् ॥२४९॥ पदे पदे स्फुरद्गीतिगन्धर्वगणसङ्कलाम् । पणस्त्रीविलसल्लास्यालोकनाक्षिप्तनागराम् ॥२५०।। आविद्धमौक्तिकश्रेणिक्लृप्तस्वस्तिकसन्ततिम् । आरक्षास्ते क्षणाच्चक्रुस्तां पुरीं प्रवरश्रियम् ॥२५१॥ चतुभिः कलापकम् ॥ नार्यः सुराङ्गनारूपविजयिन्यः कराम्बुजैः । बिभ्राणाः पूर्णपात्राणि, प्राविशन्नृपमन्दिरम् ॥२५२॥ कूर्दमानैः समं छात्रैः, पठतः सौममातृकाम् । उपागतानुपाध्यायान्, सच्चक्रे सादरं नृपः ॥२५३॥ सामन्ताः क्षितिनाथाय, मङ्गलाचारकोविदाः ।
१. नृपः । २. खेलद्भिः । ३. जन्मपत्रिकाम् ।