________________
सगरचक्रिणो जन्म
२४३
न ह्यर्हन्तः प्रसूक्षीरं, रसयन्तीति वृत्रहा । कराङ्गष्ठे विभोस्थित्, सुधां दिव्योल्लसद्रसाम् ॥२३३॥ ततो नत्वा विभुं व्योम्नोत्पत्य नन्दीश्वरं ययौ । अन्ये तु वासवा मेरोरेव तं प्रापुरुन्मुदः ॥२३४॥ तत्र प्राच्याञ्जनगिरौ, सौधर्माधिपतिः कृती । चकाराऽष्टाह्निकापूजामहं चैत्ये सनातने ॥२३५॥ तल्लोकपालाश्चत्वारोऽर्हतामष्टाह्निकोत्सवम् । वाप्यन्तःस्थदधिमुखशैले चैत्येषु तेनिरे ॥२३६॥ उदीच्याञ्जनशैले तु, शाश्वतार्हनिकेतने । ईशानवासवश्चक्रेऽष्टाह्निकोत्सवमुत्तमम् ॥२३७॥ लोकपालाश्च तस्यापि, प्राग्वद्दधिमुखाद्रिषु । चक्रुरष्टाह्निकापूजामृषभादिध्रुवार्हताम् ॥२३८।। दक्षिणाञ्जनशैलेऽथाऽष्टाह्निकां चमरोऽकरोत् । चतुर्षु तद्दधिमुखाद्रिषु तस्य तु लोकपाः ॥२३९।। पश्चिमे त्वञ्जनगिरौ, बलीन्द्रोऽष्टाह्निकां व्यधात् । तल्लोकपालाश्चत्वारः, पुनर्दधिमुखाद्रिषु ॥२४०॥ ततश्चाद्भुतपुण्येन, तेन नुन्ना इव द्रुतम् । सर्वे सुराऽसुरा देवभुवं भूरिसुखां ययुः ॥२४१॥ इतश्च रात्रौ तत्रैव, जिनजन्मक्षणादनु । वैजयन्त्यप्यसूताऽऽशु, तनयं द्युतिशालिनम् ॥२४२॥ ज्ञात्वाऽथ विजयादेव्या, वैजयन्त्याश्च तत्क्षणम् । पुत्ररत्नसमुत्पत्ति, सम्मदापूर्णचेतसः ॥२४३।।