SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ २४२ श्रीअजितप्रभुचरितम् सर्गः-३ सौरभाहूतरोलम्बकुलैर्नानाविधैः सुमैः । त्वामर्चयद्भिरस्माभिर्लेभेऽहो ! जगदर्यता ॥२२३।। तेषां प्रशस्यं [खलु] जीवितव्यं, श्लाघ्यं च तेषां जननं भवेऽत्र । द्वितीयतीर्थाधिपते ! प्रमोदाद्यैः सेव्यसे सेवककल्पवृक्ष !' ॥२२४॥ [इन्द्रवज्रावृत्तम्] इति स्तुत्वा हरिः प्राग्वत्, पञ्चमूर्तीः श्रयन् प्रभुम् । ईशानाङ्कादुपादाय, विनीतां नगरीं ययौ ॥२२५॥ संहृत्याऽर्हत्प्रतिबिम्बं, तथाऽवस्वापिनीमपि । सविधे विजयादेव्याः, स्वामिनं विन्यवेशयत् ॥२२६।। उच्छीर्षे च विभोः कान्तिन्यकृतार्क-निशाकरम् । कुण्डलद्वन्द्वममलदू[ष्य]द्वन्द्वयुतं न्यधात् ॥२२७।। प्रभोश्चाक्षिविनोदार्थमुल्लोचे मणिमण्डितम् । बबन्ध स्वर्णप्राकाररम्यं श्रीदामगण्डकम् ॥२२८।। हिरण्य-स्वर्ण-रत्नानां, कोटीभत्रिंशतं पृथक् । पृथग् द्वात्रिंशतं नन्दासन-भद्रासनान्यपि ॥२२९॥ अन्यच्च वस्त्रा-ऽलङ्कार-फल-पुष्पादि सुन्दरम् । शक्रादिष्टश्रीदवाचाऽवर्षन् विभुगृहे सुराः ॥२३०।। युग्मम् ।। प्रभोः प्रभुजनन्याश्च, योऽप्रियं चिन्तयिष्यति । सप्तधा भेत्स्यते तस्याऽर्जकमञ्जरिवच्छिरः ॥२३१।। इत्युच्चैर्घोषणामाभियोगिकाः शक्रशासनात् । त्रिदशानां निकायेषु, चतुर्ध्वपि तदा व्यधुः ॥२३२।।
SR No.022706
Book TitleAjitrabhu Charitram
Original Sutra AuthorN/A
AuthorDevanandsuri, Vinaypurnashreeji
PublisherOmkarsuri Gyanmandir
Publication Year2017
Total Pages502
LanguageHindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy