________________
शक्रेन्द्रकृता जिनस्तुतिः
इत्थं परेऽप्यनुज्येष्ठं, वासवा अच्युतेन्द्रवत् । स्वामिनं स्त्रपयामासुर्द्वाषष्टिः सपरिच्छदाः ॥२१३॥ अथेशानवृषा पञ्चमूर्त्तीर्निर्माय शक्रवत् । श्रितासनः प्रभुं मूर्त्यैकया क्रोडे समाददे ॥ २१४॥ एकया विशदं छत्रं, द्वाभ्यां च चामरे दधौ । शूलमुल्लालयामास, स्थितोऽग्रे पुनरेकया ॥ २१५ ॥ शक्रोऽथ स्नात्रसामग्रीं, विनिर्माप्याऽऽभियोगिकैः । स्फाटिकान् स्वामिनो दिक्षु, विकृत्य चतुरो वृषान् ॥२१६॥ तच्छृङ्गेभ्यो निर्यतीभिः, क्षीरधाराभिरष्टभिः । सम्भूय निपतन्तीभिर्मूनि प्रभुमसिष्णपत् ॥ २१७॥ युग्मम् ॥ ततः कल्पद्रुमादीनां, प्रसूनैर्जिनमार्चयत् । दिव्यवासो-मणि-स्वर्णाद्यलङ्कारैरभूषयत् ॥२१८॥
आलिख्य लेखनाथोऽथ प्रभोरग्रेऽष्टमङ्गलीम् । विधायाऽऽरात्रिकं शक्रस्तवमुक्त्वेति चाऽस्तुत ॥ २१९॥
‘जय रत्नत्रयाधार !, जय ज्ञानत्रयोज्ज्वल ! । जय विश्वत्रयीपूज्य !, जय दोषत्रयान्तक ! ॥ २२०॥ प्रभो ! कृत्वा तव स्नात्रं, निर्मलैस्तीर्थवारिभिः । अस्माभिर्भवदावाग्नितापोऽपास्यत कौतुकम् ॥ २२१ ॥ द्वितीयस्तीर्थनाथस्त्व[म] द्वितीयः पुनर्गुणैः । अभूद् द्वितीयकल्याणपर्वणाऽद्य जगन्मुदे ॥ २२२॥ १. उत्सङ्गे ।
२४१