________________
२४०
श्रीअजितप्रभुचरितम् सर्गः-३
वादित्रनिनदैः पूर्णे, रोदसीविवरेऽखिले । सुरीजनेषु नृत्यत्सु, गीतध्वनिमनोहरम् ॥२०३॥ देवमागधसन्दोहे, गुणौघं पठति प्रभोः । चामरेष्वभितोऽप्युद्धूयमानेषु सुरासुरैः ॥२०४॥ जलैः सर्वोषधीमित्रैश्चन्दनादिसुगन्धिभिः । उन्निद्राम्भोजसंशोभिवक्त्रकुम्भावलिस्थितैः ॥२०५॥ सौधर्मवासवक्रोडगतस्य भुवनप्रभोः । स्नात्रं श्रेय:श्रियां पात्रं, निर्ममे निर्मलाशयः ॥२०६॥ षड्भिः कुलकम् ॥ स्नात्रे प्रवर्तमाने च, पुरः सर्वेऽपि वासवाः । अतिष्ठंश्चामर-च्छत्र-फल-पुष्पादिपाणयः ॥२०७॥ अन्येऽपि देवा देव्यश्च, गीतैर्वाद्यैः प्रव(न)तनैः । फलपुष्पादिवर्षेण, निपातोत्पाततोऽपि च ॥२०८॥ हेषादिनादकरणात, पाददर्दरयोगतः । अन्याभिरपि चेष्टाभिर्भृशं प्रादीदृशन्मुदम् ॥२०९॥ युग्मम् ॥ मार्जयित्वा प्रभोः कायं, चन्दनेन विलिप्य च । सामोदैः कुसुमैः स्मेरैरानर्चाऽथाऽच्युताधिपः ॥२१०॥ श्रीवत्स-स्वस्तिका-ऽऽदर्शा, नन्द्यावर्तः सुकुम्भयुक् । भद्रासनं वर्द्धमानो, मत्स्यश्चेत्यष्टमङ्गलीम् ॥२११॥ अखण्डै रजतमयैस्तण्डुलैश्च पुरः प्रभोः । आलिख्य धूपमुत्क्षिप्य, विहिताऽऽरात्रिकोऽस्तवीत् ॥२१२॥ युग्मम् ॥
१. पादघातयोगतः ।