________________
२३९
देवेन्द्रकृतजन्ममहोत्सवः तैरथोत्तरपूर्वस्यां, दिश्यपक्रम्य वैक्रियम् । समुद्धातं विधायोच्चैः, कुम्भाः सद्यो विचक्रिरे ॥१९३॥ सौवर्णा राजता रात्नाः, स्वर्णरूप्यमया अपि । स्वर्णरत्नमयाश्चापि, रूप्यरत्नमया अपि ॥१९४॥ स्वर्णरूप्यरत्नमयास्तथा मृत्स्नामया अपि । अष्टाग्रसहस्रसङ्ख्याः , प्रत्येकमभवनमी ॥१९५॥ तैस्तथा स्थाल-भृङ्गार-पात्री-रत्नकरण्डकाः । दर्पणाः पुष्पचङ्गेर्यः, सुप्रतिष्ठाः कृतास्तति ॥१९६।। क्षीराब्धौ पुष्कराब्धौ च, गङ्गादिषु नदीषु च । मागधादिषु तीर्थेषु, पद्मादिषु नदेष्वपि ॥१९७।। गत्वा तेऽथ सुराः स्वैरं, सलिलैरतिनिर्मलैः । कुम्भानपूरयन् मृत्सामम्बुजान्यप्यगृह्णत ॥१९८॥ युग्मम् ॥ कुलाद्रिभ्यो वक्षारेभ्यो, वैताढ्येभ्यश्च सर्वतः । विजयेभ्यः सुराद्रिस्थवनेभ्योऽपि च ते सुराः ॥१९९॥ गन्धान् पुष्पाणि सिद्धार्थांस्तुवराणि तथौषधीः । मेलयित्वा क्षणान्मेरुशिखरं समुपाययुः ॥२००॥ युग्मम् ॥ अथ प्रमोदमसमं, वहन्नच्युतवासवः । उत्थाय स्वीयसामानिकादिभिः परितो वृतः ॥२०१॥ उत्तरासगवान् दिव्यैीमैश्चापि सुमैर्वरैः । उत्क्षिप्ताऽगरुकर्पूरो, [मुमोच] कुसुमाञ्जलिम् ॥२०२।। १. हृदेषु । २. मेरुस्थवनेभ्यः ।