________________
२३८
श्रीअजितप्रभुचरितम् सर्गः-३ सेनान्यो भद्रसेनाख्या, घण्टाः सन्ताडयन्त्यमूः । नवानां धरणादीनां, परेषां दक्षसञ्जकः ॥१८४।। पञ्चयोजनशत्युच्चोऽसुरभोंर्महाध्वजः । तदर्द्धमानो धरणादीन्द्राणां तु समन्ततः ॥१८५॥
इति भवनपतीन्द्रा विंशतिः ॥छ।। कालादयोऽपि द्वात्रिंशद्व्यन्तराणामधीश्वराः । दक्षिणोत्तरपङ्क्तिस्थाः, प्रबुद्धाः पीठकम्पतः ॥१८६।। क्रमान्म स्वरां मञ्जुघोषां स्वैः स्वैर्बलेश्वरैः । घण्टामास्फाल्य सम्मील्य, स्वस्वान् व्यन्तरनिर्जरान् ॥१८७।। समारूढा विमानानि, विकृतान्याभियोगिकैः । प्रभुजन्ममहं कर्तुं, महा समुपाययुः ॥१८८।। विशेषकम् ॥ चन्द्राऽऽदित्यावसङ्ख्यातो, ज्योतिष्काणामधीश्वरौ । आयातौ मेरुशिखरे, समस्तात्तपरिच्छदौ ॥१८९॥ चन्द्रार्काणामपाच्यानां, घण्टाः स्युः सुस्वराभिधाः । तथा सुस्वरनिर्घोषा, उदीच्यानां प्रकीर्तिताः ॥१९०॥ योजनानां सहस्रं तु, विमानानि पृथुत्वतः । व्यन्तरज्योतिष्केन्द्राणां, सपादं च शतं ध्वजाः ॥१९१।।
इति द्वात्रिंशद् व्यन्तरेन्द्रा ज्योतिष्केन्द्रौ च ॥ श्री ।। एवं सर्वसुरेन्द्रेषु, मिलितेष्वच्युतेश्वरः । स्नात्रोपकरणाहृत्यै, निदिदेशाऽऽभियोगिकान् ॥१९२।।
१. अस्य श्लोकस्य अन्वयो निम्नोक्तरीत्या कर्तव्यः-व्यन्तरज्योतिष्केन्द्राणां तु विमानानि पृथुत्वतो योजनानां सहस्रम्, ध्वजाश्च सपादं ( योजनानां) शतम् ।