________________
देवेन्द्रकृतजन्ममहोत्सवः
भवनेशनिकायेषु, चमरोऽसुरवासवः । हताया द्रुमसेनान्यौघस्वराया निनादतः || १७३ || मिलितैरसुरैर्युक्तः, समं सामानिकादिभिः ।
योजनार्द्धलक्षमानं विमानं समधिष्ठितः ॥ १७४॥
,
प्राप्तो नन्दीश्वरं शक्र इव सङ्क्षिप्य तत् क्रमात् । मेरुमूर्द्धनि तीर्थेशपादान्तं समुपागमत् ॥ १७५ ॥ विशेषकम् ॥
महाद्रुमाहतमहौघस्वरानादसङ्गतैः ।
युक्तोऽसुरैर्बलीन्द्रोऽपि तद्वदागाद्विमानगः ॥१७६ ।। नाग-विद्युत्- सुपर्णाऽग्नि-वायु-मेघ- सरस्वताम् । द्वीपानां च दिशां चेन्द्रा, दक्षिणश्रेणिगाः क्रमात् ॥१७७॥ धरणेन्द्रो हरिर्वेणुदेवश्चाऽग्निशिखस्तथा । वेलम्बः सुघोषो जलकान्तः पूर्णोऽमितोऽपि च ॥ १७८॥
उदकश्रेणेस्त्वमी भूतानन्दो हरिशिखस्तथा । वेणुदारी तथा चाऽग्निमाणवश्च प्रभञ्जनः ॥ १७९ ॥ महाघोषो जलप्रभोऽवशिष्टोऽमितवाहनः ।
सर्वेऽमी स्वस्वघण्टानां नादैर्जागरिताऽमराः ॥ १८० ॥
"
विस्तृतानि यो[ज] नानां, सहस्रान् पञ्चविंशतिम् ।
विमानानि समारूढा, आजग्मुः प्रभुसन्निधौ ॥ १८९ ॥ पञ्चभिः कुलकम् ॥
नागादिकानां भवनपतीनां पक्षयोर्द्वयोः ।
क्रमान्मेघस्वरा क्रौञ्च- हंस-मञ्जुस्वरास्तथा ॥१८२॥
२३७
नन्दिस्वरा नन्दिघोषा, सुस्वरा मधुरस्वरा । मञ्जुघोषा चेति घण्टा, ज्ञातव्या अभिधानतः ॥ १८३॥