________________
२३६
श्रीअजितप्रभुचरितम् सर्गः-३ आगा[द्] द्वादशभिर्लक्षैर्वृतो वैमानिकामरैः । सनत्कुमारः सुमनोविमानेन पुरः प्रभोः ॥१६३।। माहेन्द्रस्तु विमानेशां, युतो लक्षाभिरष्टभिः । श्रीवत्साख्यविमानस्थः, पार्श्व प्राप जगत्पतेः ॥१६४।। ब्रह्मेशोऽपि विमानेशचतुर्लक्षसमन्वितः । नन्द्यावर्त्ताभिधं यानं, श्रित्वा प्रापाऽन्तिकं प्रभोः ॥१६५।। पञ्चाशता विमानेशसहस्रैः सह सत्वरम् । लान्तकेशः कामगवविमानस्थः समागमत् ॥१६६॥ चत्वारिंशद्विमानेशसहस्रपरिवारभाक् । शुक्र[शेक्र]: प्रीतिगमयानेनाऽऽप जिनान्तिकम् ॥१६७|| सहस्रारहरिः षष्टिविमानशतनायकैः । वृतः प्राप प्रभोः पार्श्व, मनोरमविमानगः ॥१६८।। विमानेशां शतैर्युक्तश्चतुर्भिरनमत् प्रभुम् । विमलाख्यविमानस्थ, आनतप्राणतेश्वरः ॥१६९॥ आरणाऽच्युतसुत्रामा, विमानेशशतैस्त्रिभिः । अन्वितः सर्वतोभद्रविमानेनाऽऽगम[द्] द्रुतम् ॥१७०॥ सौधर्मः सनत्कुमारो, ब्रह्म शुक्रश्च प्राणतः । एषां पञ्चानां कल्पेशां, नैगमेषी चमूपतिः ॥१७१।। घण्टा सुघोषाऽन्येषां तु, पञ्चानां परिकीर्तिता । घण्टा महाघोषा सेनानाथो लघुपराक्रमः ॥१७२।।
इति वैमानिकेन्द्रा दश ॥छ। १. 'शुक्रशक्रः प्रीतिगमविमानेन जिनान्तिक' मिति वासुपूज्यचरित्रे ।३।२४२।