SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ देवेन्द्रकृतजन्ममहोत्सवः २३५ सुरसङ्घट्टसङ्कीर्णमार्गेण नभसा वृषा । प्राप मन्दरचूलायाः, स्थितां दाक्षिणतः शिलाम् ॥१५३॥ अतिपाण्डुकम्बलाख्या, कुमुदोदरपाण्डुरा । अर्हतां भरतोत्थानामभिषेकशिला हि सा ॥१५४|| तस्यां सिंहासनं रत्नमयं पूर्वककुम्मुखः । समाश्रयत् सुनासीरः, स्वोत्सङ्गस्थापितप्रभुः ॥१५५।। तदैवेशानकल्पेशप्रमुखा अपि वासवाः । त्रिषष्टिः पीठकम्पेन, प्रयुक्तावधिसंविदः ॥१५६।। स्वस्वपत्तिचमूनाथैः, स्वस्वघण्टासमाहतेः । प्रबोधितैः सुरैर्युक्ताः, स्वस्वाभियोगिकामरैः ॥१५७।। विकृतानि विमानानि, समारूढाः सुराचलम् । समेत्य नततीर्थेशास्तस्थुः स्थाने यथोचिते ॥१५८॥ विशेषकम् ॥ तथाहिईशानेन्द्रः शूलपाणिर्महावृषभवाहनः । लघुपराक्रमाभिख्यसेनानाथप्रकाशितात् ॥१५९॥ महाघोषाख्यघण्टाया, निनादाज्जातजागरैः । वृतो वैमानिकामत्त्यैर्लक्षाष्टाविंशतिप्रमैः ॥१६०॥ विमानं पुष्पकं नामाऽध्यारुह्येशानकल्पतः । तिर्यग्दक्षिणमार्गेणोत्तीर्य नन्दीश्वरं श्रितः ॥१६१॥ यानमुत्तरपूर्वस्मिन्, शैले रतिकराभिधे । सङ्क्षिप्य क्रमतः स्वर्गस्वामिनमितमानमत् ॥१६२॥ चतुर्भिः कलापकम् ॥
SR No.022706
Book TitleAjitrabhu Charitram
Original Sutra AuthorN/A
AuthorDevanandsuri, Vinaypurnashreeji
PublisherOmkarsuri Gyanmandir
Publication Year2017
Total Pages502
LanguageHindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy